________________ 280 तत्त्वार्थाधिगमसूत्रम् [ अध्याय: 9 सूत्रम्-वितर्कः श्रुतम् // 9-45 // भा०-यथोक्तं श्रुतज्ञानं वितर्को भवति // 45 // टी-वितर्को-मतिज्ञान विकल्पः / वितळते-येनालोच्यते पदार्थः स वितर्कः तदनुगतं श्रुतं वितर्कः तदमेदाद् विगतं तर्क वा वितर्क, संशयविपर्ययोपेतं श्रुतज्ञानमित्यर्थः / इदमेव सत्यमित्यविचलितस्वभावम् / यथोक्तमिति पूर्वगतमेव, नेतरत् / श्रुतज्ञानमाप्तवचनं वितर्क उच्यते इति // 45 // सम्प्रति विचारस्वरूपनिरूपणायाह सूत्रम्-विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः॥९-४६ // भा०-अर्थव्यञ्जनयोगसङ्क्रान्तिर्विचार इति / एतदभ्यन्तरं तपः संवरत्वादभिनवकर्मोपचयप्रतिषेधकं निर्जरणफलत्वात् कर्मनिर्जरकम् / अभिनवकर्मोपचयप्रतिषेधकत्वात् पूर्वोपचितकर्मनिर्जरकत्वाच निर्वाणप्रापकमिति // 6 // ____टी.-अर्थव्यञ्जनयोर्योगेषु च सङ्क्रमण सङ्क्रान्तिः / अर्थः-परमाण्वादिः, व्यञ्जन तस्य वाचकः शब्दः, योगा-मनोवाकायास्तेषु सक्रमणं सङ्क्रान्तिरेकद्रव्ये अर्थस्वरूपा(त) व्यञ्जनं व्यञ्जनस्वरूपादर्थ वर्णादिकः पर्यायोऽर्थः व्यञ्जनशब्दः। एतदुक्तं भवति-प्राशब्दस्ततस्तत्त्वालम्बनमिदमस्य स्वरूपमयमस्य पर्यायस्ततस्तदर्थचिन्तनं साकल्येन, ततः शब्दार्थयोः स्वरूपविशेषचिन्ताप्रतिबन्धः प्रणिधानमर्थसङ्क्रान्तिः, काययोगोपयुक्तध्यानस्य वाग्योगसश्चारः, वाग्योगोपयुक्तध्यानस्य वा मनोयोगसञ्चारः इत्येवमन्यत्रापि योज्यम् / इत्थंलक्षणो विचार इत्यस्ति वितर्कविचारयोः प्रतिविशेष इति // एतदभ्यन्तरं तप इत्यादि संवरकारणं संवरप्रस्तावे (अ० 9, सू० 3 ) इदमुक्तं “तपसा निर्जरा च" इति / संवरो निर्जरा च भवति उभयं करोति तपः। तच्च तपो बाह्यमाभ्यन्तरं च संवरकारणं संवररूपत्वाच्च स्थगितास्रवद्वारस्याभिनवकर्मोपचयप्रतिषेधकोरि नापूर्वकर्मपुद्गलप्रवेशः / कर्मनिर्जरा चेति निर्जरणफलत्वात् कर्मनिर्जरकं कर्म निर्जरयति, परिशाटयतीत्यर्थः / ततश्चाभिनवकर्मोपचयप्रतिषेधकारित्वात् पूर्वोपचितकर्मनिर्जरकत्वाच सकलकर्मपरिक्षयानिर्वाणमापकमिति // 46 // भा०-अत्राह-उक्तं भवता ( अ० 9, सू० 2-3) परीषहजयात् तपसो. ऽनुभावतश्च कर्मनिर्जरा भवतीति / तत् किं सर्वे सम्यग्दृष्टयः समनिर्जरा आहोस्विदस्ति कश्चित् प्रतिविशेष इति / अत्रोच्यते टी०-अत्राह-उक्तं भवतेत्यादि सम्बन्धग्रन्थः / किमुक्तं तद् दर्शयति-परीषहजयात्, क्षुत्पिपासादयः परीपहास्तज्जयात्-सम्यगतिसहनात् / तपो द्वादशभेदमनशन 1 'कारिता अपूर्व ' इति च-पाठः।