________________ 279 सूत्र 44] स्वोपज्ञभाष्य-टीकालङ्कृतम् अर्थादि च पृथक्त्वेन, यद् वितर्कयतीव हि / ध्यानमुक्तं समासेन, तत् पृथक्त्वविचारवत् // 3 // -अनु० अविकम्प्यमनस्त्वेन, योगसङ्क्रान्तिनिःस्पृहम् / तदेकत्ववितर्काख्यं, श्रुतज्ञानोपयोगवत् // 4 // सूक्ष्मकायक्रिया-रुद्धमूक्ष्मवाननसक्रियः। यद् ध्यायति तदप्युक्त, सूक्ष्ममप्रतिपाति च // 5 // -, कायिकी च यदेपाऽपि, सूक्ष्मोपरमति क्रिया। अनिवर्ति तदप्युक्त, ध्यानं व्युपरतक्रियम् // 6 // " // 42 // -, सूत्रम्-एकाश्रये सवितर्के पूर्वे // 9-44 // भा०-एकद्रव्याश्रये सवितर्के पूर्वे ध्याने प्रथमदितीये / तत्र सविचार प्रथम, अविचारं द्वितीयं, अविचारं सवितर्क द्वितीयं ध्यानं भवति // 44 // टी०- एक आश्रय-आलम्बनं ययोस्ते एकाश्रये एकद्रव्याश्रये इति पूर्वविदारभ्ये मतिगर्भश्रुतप्रधानन्यापाराच्चैकाश्रयतापरमाणुद्रव्यमेकमालम्ब्यात्मादिद्रव्यं वा श्रुतानुसारेण निरुद्धचेतसः शुक्लध्यानमिति " वितर्कः श्रुतम्" वक्ष्यति (अ०९, सू० 45) इति। सह वितर्केण सवितके, पूर्वगतश्रुतानुसारिणीत्यर्थः। पूर्वं च पूर्वे च पूर्वे ध्याने / एतदेव निश्चिनोतिप्रथमहितीये इति पृथक्त्ववितर्कमेकत्ववितकं च / तत्र-तयोर्यत् प्रथमम्-आद्यं पृथक्त्ववितर्क तत् सविचारं सह विचारेण सविचारं, सह सङ्क्रान्त्येति यावत् / वक्ष्यति (अ०९, सू०४६)"विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः" / कथं पुनरनुपातं सूत्रे सविचारमिति गम्यते / अविचारं द्वितीयमिति वचनादर्थलभ्यं प्रथमं सविचारमिति / अविचारं द्वितीयम् / अविद्यमान विचारं अविचारं, अर्थव्यञ्जनयोगसङ्क्रान्तिरहितमित्यर्थः / द्वितीयमिति सूत्रक्रमप्रामाण्यांदेकत्ववितर्कमविचारं भवति ध्यानमिति // 44 // भा०--अत्राह-वितर्कविचारयोः कः प्रतिविशेष इति ? / अत्रोच्यतेटी०-अत्राहेत्यादि वितर्कविचारयाविशेषमजानानः स्वरूपमवगच्छन् परः पृच्छति-कः प्रतिविशेष इति / प्रतिशब्दस्तत्त्वाख्यायां वर्तते / 'प्रतिशब्दस भर्थनानात्वम् - यथा शोभनश्चैत्रः प्रतिमातरं एवं प्रतिविशेषः स्वरूपमितरेतरव्यावृत्तं तत्त्वं वितर्कविचारयोः कीदृगिति तत्त्वमाख्यायताम् / अत्रोच्यत इत्याह 1 'कम्पमन' इति हु-पाठः। 2. दारम्भ' इति उ-पाठः। 3 देकत्वविचार' इति उ-पाठः।