________________ 278 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 9 ___अत्राह-उक्तमित्यादिसम्बन्धः / शुक्ले चाये द्वे पूर्वविदः इत्युक्तं (अ० 9.10 39. 40), परे द्वे केवलिन इति चामिहितं ( अ० 9, सू० 41) / तत् कानि तानीति अजानानेन प्रश्ने कृते अत्रोच्यते इत्याह सूत्रम्-पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिशुक्लभ्यानस्य चातुर्विध्यम् व्युपरतक्रियानिवर्तीनि // 9-42 // भा०-पृथक्त्ववितकम्, एकत्ववितर्क, सूक्ष्मक्रियमप्रतिपाति, व्युपरतक्रियानिवर्तीति चतुर्विधं शुक्लध्यानम् // 42 // टी-पृथक्त्ववितर्कमित्यादिना भाष्येण नामग्राहं पठति चतुरोऽपि भेदान् // 42 // एते चोक्तलक्षणा भेदाः शुक्लध्यानमित्थं चतुर्विधमिति सस्वामिकमुक्तम् / तस्याधुना पूर्वोक्तस्वामिन एव विशेष्य कथ्यन्ते सूत्रम्-तत् त्र्येककाययोगायोगानाम् // 9-43 // भा०—तदेव चतुर्विधं शुक्लध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासङ्ख्यं भवति। तत्र त्रियोगानां पृथक्त्ववितर्क, एकान्यतमकयोगानामेकत्ववितर्क, काययोगानां सूक्ष्मक्रियमप्रतिपाति, अयोगानां व्युपरतक्रियानिवर्तीति // 42 // री-तदेतच्चतुर्विधं शुक्लध्यानं प्रथमद्वितीयो(१)त्तमसंहननवतो भवति / तत्रार्य पृथक्त्ववितर्क त्रियोगस्य भवति, मनो-वाक्-काययोगव्यापारवत इत्यर्थः / एकान्यतमयोगानामिति / अन्यतमैकयोगानामेकत्ववितकै एकोऽन्यतमः कायादीनां योगो यस्य ध्यायिनो व्याप्रियते, कदाचिन्मनोयोगः कदाचिद् वाग्योगः कदाचित् काययोग इति / काययोगानामिति कायैकयोगभाजामेव सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानमिति / निरुद्धयोगद्वयावस्थानां कायव्यापारवतां सूक्ष्मक्रियं भवति, न च प्रतिपतति / अयोगानामिति शैलेश्यवस्थानां हस्वाक्षरपञ्चकोच्चारणसमकालानां मनो-वाक्-काययोगत्रयरहितानां व्युपरतक्रियमनिवर्ति ध्यानं भवति / उक्तं च " यदर्थव्यञ्जने काय-वैचसी च पृथक्त्वतः। मनः सङ्क्रमयत्यात्मा, स विचारोऽभिधीयते ॥१॥-अनु० सङ्क्रान्तिरथोदर्थ यद, व्यञ्जनाद् व्यञ्जनं तथा / योगाच्च योगमित्येष, विचार इति वा मतः॥२॥ -" १'बाये' इति ङ-पाठः / 2-3 'निवृत्ती' इति घ-पाठः। 4 वचसा' इति -पादः /