________________ -, सूत्र:४१] स्वोपज्ञभाष्य-टीकालङ्कृतम् 277 बादरतत्वात् पूर्व, वाश्मनसे बादरे स निरुणद्धि क्रमेणैव / आलम्बनाय करणं, हि तदिष्टं तत्र वीर्यवतः // 12 // -आर्या सत्यप्यनन्तवीर्य-त्वे बादरतनुमपि निरुणद्धि ततः / सूक्ष्मेण काययोगेना(न?) न निरुध्यते हि सूक्ष्मो योगः // 13 // -, सति बादरे योगे, न हि धावन् वेपथु वारयति / नाशयति काययोग, स्थूलं सोऽपूर्वफडकीकृत्य / शेषस्य काययोग-स्य तथा कृतीश्च स करोति // 14 (1) // -, सूक्ष्मेण काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसे। भवति ततोऽसौ सूक्ष्म-क्रियस्तदाकृतिगतयोगः // 15 // -, तमपि स योग सूक्ष्म, निरुरुत्सन् सर्वपर्ययानुगतम् / ध्यानं सूक्ष्मक्रिय-मप्रतिपात्युपयाति वितमस्कम् // 16 // -, ध्याने दृढार्पिते पर-मात्मनि ननु निष्क्रियो भवति कायः / प्राणापातनिमेषो-न्मेषवियुक्तो मृतस्येव // 17 // ध्यानार्पितोपयोग-स्यापि न वाङ्मनसक्रिये यस्मात् / अन्तर्वर्तित्वाइंप-रमतस्तेन तयोर्ध्यानेन निरोधनं नेष्टम् // 18 // सततं तेन ध्यानेन 'निरुद्धे सूक्ष्मकाययोगेऽपि / निष्क्रियदेशो भवति, स्थितोऽपि देहे विगतलेश्यः // १९॥-आर्या तुर्यध्याने योगाभावात् समयस्थितिना(नोड)पि न कर्मणो भवति बन्धः। ध्यानार्पणसंहारात, किश्चिच्च ससंहतावयवाः // 20 // लेश्याक्रियानिरोधो, योगनिरोधश्च गुणनिरोधेन / इत्युक्तो विज्ञेयो, बन्धनिरोधश्च हि तथैव // 21 // " प्रसवादरपर्याप्तादेयशुभगकीर्तिमनुजनाग्नि पञ्चेन्द्रियतामन्यतरच वेद्यम् उच्चैस्तथा गोत्रम् / मनुजायुष्कं च स एकादशं वेदयति कर्मणां प्रकृतीः वेदयति तु तीर्थकरो द्वादशसहतीर्थकृत्त्वेन सततो देहत्रयमोक्षार्थमनिवर्ति सर्वगतमुपयाति समुच्छिन्नयिमतमस्कं परं ध्यान व्युपरतक्रियमनिवर्तीत्यर्थः / तद्धि तावन्निवर्तते यावन्न मुक्तः // 41 // १'वीर्यत्वे' इति ङ-पाठः / 2 ‘पदानुगतं' इति उ-पाठः / 3 'क्रिया' इति -पाठः। 4 'निसद्ध ' इति हु-पाठः। ५'वयवलेश्याः ' इति ग-पाठः। 6 नामनि' इति ग-पाठः / 'प्रातयः' इति हु-पाठः। ८'क्रिययातमस्कं' इति हु-पाठः। 9 'गच्छे' इत्यधिको ग-पाठः।