________________ 276 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 9 "अप्रतिपाति ध्यायन, कश्चित सूक्ष्मक्रिय 'विहत्यन्ते / आयुःसमीक्रियाऽर्थ, त्रयस्य गच्छेत् समुद्धातम् // १॥-आर्या आद्राम्बराशुशोषव-दात्मविसारणविशुष्कसमकर्मा। समयाष्टकेन देहे, स्थित्वा योगात् क्रमाद् द्वन्द्वे // 2 // " तथाऽन्य आह आयुषि समाप्यमाने, शेषाणां कर्मणां यदि समाप्तिः। न स्यात् स्थितिवैषम्याद्, गच्छति स ततः समुद्धातम् ॥१॥-आर्या स्थित्या च बन्धनेन, च समीक्रियार्थ हि कर्मणां तेषाम् / अन्तर्मुहूर्तशेष, तदायुषि समुजिघांसति सः ॥२॥आर्द्र विरल्लितं सद्, वस्त्रं मझ्वेव ननु विनिर्वाति / संवेष्टितं तु न तथा, तथा हि कर्मापि मूर्तत्वात् // 3 // - , स्नेहक्षयसाम्यात् (स्थितिबन्धनहेतुर्हि) स्नेहः स च हीयते समुद्धातात् / क्षीणस्नेहं शटंति हि भवति तदल्पस्थिति च शेषम् // 4 // -". आयुष्कस्यापि विरल्लितस्य, न हास्यते स्थितिः कस्मात् / इति वा चोद्यं चरम-शरीरोऽनुपक्रमायुर्यत् कङ्कटुकवत् // 5 // -, दण्डकपाटकरुचक-क्रिया जगत्पूरणं चतुःसमयम् / क्रमशो निवृत्तिरपि च त-थैव प्रोक्ता चतुःसमया // 6 // -, विकसनसङ्कोचनधर्मत्वान्जीवस्य तत् तथा सिद्धम् / यच्चाप्यनन्तवीर्य, तस्य ज्ञानं च गततिमिरम् // 7 // -" शेषायाः शेषायाः, समये संहत्य सङ्ख्येयान् / भागान् स्थितेरनन्तान् , भागान् शुभानुभावस्य // 8 // -, स ततो योगनिरोध, करोति लेश्यानिरोधमपि काङ्क्षन् / / समसमयस्थिति बन्धं, योगनिमित्तं स हि रुरुत्सन् // ९॥समये समये कर्मा-दाने सति सन्ततेर्न मोक्षः स्यात् / यद्यपि हि न मुच्यन्ते, स्थितिक्षयात् पूर्वकर्माणि // 10 // -" नोकर्माणि हि वीर्य, योगद्रव्येण भवति जीवस्य / तस्यावस्थाने ननु, सिद्धः समयस्थितिबन्धः // 11 // - १'विकृत्यन्ते' इति च-पाठः। 2 ग-च-छ-प्रतिष्वपि चिहिताक्षराण्यधिकानि सन्ति / सी. इतिच-पाठः / 4 'तद् भास्यते' इति ग-पाठः। ५'प्रोक्तश्चतुःसमये' इति -पाठः।.६ नोकर्मणा हि' इति -पाठः।