________________ 275 सूत्रे 40-41] स्वोपज्ञभाष्य-टीकालङ्कृतम् तस्य हि तस्मिन् समये, केवलमुत्पद्यते गततमस्कम् / ज्ञानं च दर्शनं चा-वरणद्वयसङ्ख्याच्छुद्धम् // 12 // - आर्या चित्रं चित्रपटनिभ, त्रिकालसहितं ततः सलोकमिमम् / पश्यति युगपत् सर्वे, सालोकं सर्वभावज्ञम् // 13 // - " वीर्य निरन्तरायं, भवत्यनन्तं तथैव तस्य तदा / कल्पातीतस्य महा-त्मनोऽन्तरायक्षयः कात्यात् // 14 // -, स ततो वेदयमानो, विहरति चत्वारि शेषकर्माणि / आयुष्यस्य समाप्ति-र्यावत् स्याद् वेद्यमानस्य // 15 // "-, भाष्यकारस्तु पूर्वविद इति मूत्रावयवं पृथग विवृणोति सम्बन्धयति / एवमेते शुक्लध्याने पूर्वविदो भवतः // 39 // सूत्रम्-पूर्वविदः॥९-४०॥ भा०-आद्ये शुक्ले ध्याने पृथक्त्ववितकैकत्ववितर्के पूर्वविदो भवतः॥४०॥ टी.-पूर्वविदो यौ उपशान्तक्षीणकषायौ तयोर्भवतः। सूत्रान्तरमिव व्याचष्टे, न तु परमार्थतः पृथक सूत्रम् / पूर्व प्रणयनात् पूर्वाणि चतुर्दश तद्विदः पूर्वविदस्ते भवन्ति नैकादशाङ्गविदः। एवमाद्यशुक्लध्यानद्वयस्य स्वामिनियमनं विहितम् // 40 // अथ पश्चाच्छुक्लध्यानद्वयस्य कः स्वामीति तनिर्दिदिक्षयोवाच सूत्रम्-परे केवलिनः॥९-४१॥ भा०.-परे हे शुक्ले ध्याने केवलिन एव भवतः, न छप्रस्थस्य // 41 // अन्तिमशक्तध्यान- अत्राह-उक्तं भवता पूर्वे शुक्ले ध्याने परे शुक्ले ध्याने वयस्य स्वामिनः इति / तत् कानि तानीति ? अत्रोच्यते टी-परं च परं च परे सूत्रसन्निवेशमाश्रित्य सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रिय चानिवर्ति ग्रहीतव्यं, ते च केवलिन एव त्रयोदशचतुर्दशगुणस्थानक्रमेणैव भवतः / छमस्थस्य तु नैते जातुचिद् भवत इति तत्र सूक्ष्मक्रियमप्रतिपातीति / सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियम् / तच्च योगनिरोधकाले भवति / वेद्य-नाम-गोत्रकर्मणां भवधारणायुष्कादधिकानां समुद्धातसाम दिचिन्त्यैश्वर्यशक्तियोगादायुष्कसमीकृतानां मनो वाक-काययोगपरिणतस्यौदारिकशरीरत्रिभागोनस्थस्य केवलिनः संज्ञिपञ्चेन्द्रियपर्याप्तकमनोऽसङ्खयेयगुणकहीनं सूक्ष्मयोगित्वमप्रतिपात्यच्युतस्वभावमा व्युपरतक्रियानिवृत्तिध्यानावाप्तेः / उक्तं च 1 ‘भावज्ञः ' इति ङ-पाठः। 2 'शुभध्याने ' इति ग-पाठः /