________________ 274 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 9 एव योगस्त्रयाणामन्यतमस्तथा अर्थो व्यञ्जनं चैकमेव पर्यायान्तरानर्पितमेकपर्यायचिन्तनमुत्पादव्ययध्रौव्यादिपर्यायाणामेकस्मिन् पर्याये निवातशरणप्रतिष्ठितप्रदीपवनिष्प्रकम्पं, पूर्वगतश्रुतानुसारि चेतो निर्विचारमर्थव्यञ्जनयोगान्तरेषु तदेकत्ववितर्कमविचारम् / आह च "क्षीणकषायस्थानं, तत् प्राप्य ततो विशुद्धलेश्यः सन् / एकत्ववितर्कावीचारं ध्यानं ततोऽध्येति // 1 // - आर्या एकार्थाश्रयमिष्टं, योगेन च केनचित् तदेकेन / ध्यानं समाप्यते यत्, कालोऽल्पोऽन्तर्मुहूर्तश्च // 2 // - , श्रुतमुच्यते वितर्कः, पूर्वाभिहितार्थनिश्चितमतेश्च / ध्यानं तदिष्यते ये-न तेन सवितर्कमिष्टं तत् // ३॥अर्थव्यञ्जनयोगा-नां सङ्क्रान्तिरुदितो हि 'विचारः।। तदभावात् तद् ध्यानं, प्रोक्तमविचारमर्हद्भिः // 4 // - , व्युत्सर्गविवेकात् सं-मोहाव्ययलिङ्गमिष्यते शुक्लम् / न च सम्भवन्ति कात्स्न्र्ये-न तानि लिङ्गानि मोहवतः // 5 // -, व्युत्सर्गः सङ्गत्यागः देहोपधीनां विवेकः। प्रीत्यप्रीतिविरहितं, ध्यायंस्तदुपेक्षकः प्रसन्नं संः // 6 // - , प्राप्नोति परं हादं, हिमातपाभ्यामिव विमुक्तम् / / तेन ध्यानेन यथा-ख्यातेन च संयमेन घातयति // 7 // - , शेषाणि घातिकर्मा-णि युगपदपरञ्जनानि ततः। कात्यान्मस्तकशूच्यां, यथा हतायां हतो भवति तालः॥-, कर्माणि क्षीयन्ते, तथैव मोहे हते कात्स्यात् // ८॥निद्राप्रचले द्विचरम-समये तस्य क्षयं समुपयातः। चरमान्ते क्षीयन्ते, शेषाणि तु घातिकर्माणि // 9 // -- आवरणचरमसमये, तस्य दयाभावितात्मनो भवति / जीवैस्ततं जगत् प-श्यतो हि भावंक्षयोपशमः // 10 // -- शटितप्रायं हि तदा-ऽऽवरणं परमावधिश्च भवति तदा।। अथ कात्स्न्यात् तत्पतनाद् द्वितीयसमये क्षयाति // 11 // -, १.निवातव्यशरणमप्रति' इति छ-पाठः। २'योग्यन्तरेषु इति ड-पाठः। ३'महर्तः सः' इति :पाठः। 'वीचारः' इति उ-पाठः। 5 यद्यपि इयं पङ्क्तिः सर्वासु प्रतिषु समस्ति तथापि अशुद्धव सा प्रतिभाति / विमुक्तः' इति ङ-पाठः। 'समुपधातः' इति च-पाठः / 'क्षयानाम' इति छ-पाठः / 'समयोपक्षयायैति' इति च-पाठः /