________________ सूत्र 39] स्वोपज्ञभाष्य-टीकालङ्कृतम् 273 क्षपयति तेन ध्याने न ततोऽनन्तानुबन्धिनश्चतुरः। मिथ्यात्वं संमिश्र, सम्यक्त्वं च क्रमेण ततः // ११॥-आर्या क्षीयन्ते हि कषायाः, प्रथमास्त्रिविधोऽपि दृष्टिमोहश्च / देशयतायतसम्यग्--दृगप्रमत्तप्रमत्तेषु // 12 // "-- , एवं पूर्वोक्तेन क्रमेण क्षपयन् कर्मप्रकृतीरुपशान्तकंपायस्थानप्राप्त उपशान्तकषायः क्षीणकषायश्च भवतीति // 38 // उपशान्तक्षीणकषाययोश्चेत्युक्तमविशेषेण धर्मध्यान, ततश्चैकादशाङ्गविदो द्रष्टव्यम् / एवमवस्थिते किं धर्ममेव ध्यानं तयोः ? नेत्युच्यते / किश्चान्यदिति सम्बध्नाति / न केवलमेतयोर्धय, शुक्ल च ध्यानमुपशान्तक्षीणकपाययोर्भवति / किं चतुर्विधमपि-पृथक्त्ववितक एकत्वसविचारं सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियमनिवर्तीति ? / उच्यते न खलु चतुष्प्रकारमपि तयोः शुक्लध्यानं भवति, किं तर्हि ? सूत्रम्--शुक्ले चाये // 9-39 / / भा०-शुक्ले चाये ध्याने पृथक्त्ववितकैकत्ववितर्के 'चोपशान्तक्षीणकषाययोर्भवतः // 39 // टी-शुक्ले चाये चे(इ.)ति / शुक्ले ध्याने उपशान्तक्षीणकषाययोर्भवतः / के 'पुनस्ते ? पृथक्त्वै कत्ववितर्के / स्वरूपतः कीदृशे ? / उच्यते-पृथग्-अयुतकं भेदः तद्भावः पृथक्त्वम्-अनेकत्वं तेन सह गतो वितर्कः, पृथक्त्वमेव वा वितर्कः सहगतं वितर्कपुरोगं पृथक्त्ववितकम् / तच्च परमाणुजीवादावेकद्रव्ये उत्पादव्ययध्रौव्यादिपर्यायानेकतयाऽपि तत्त्वं तत् पृथक्त्वं पृथक्त्वेन पृथक्त्वे वा तस्य चिन्तनं वितकसहचरितं सविचारं च येत् तत् पृथक्त्ववितर्क सविचारं तच्च पृथक्त्वमर्थव्यञ्जनयोगानां वक्ष्यति-" त्र्येककाययोगायोगानां", "वितर्कः श्रुतं", "विचारोऽर्थव्यञ्जनयोगसङ्क्रान्तिः" (अ० 9, सू० 43, 46, 47) / पूर्वगतभङ्गिकश्रुतानुसारेणार्थव्यञ्जनयोगान्तरप्राप्तिः-गमनं विचारः। अर्थाद् व्यञ्जनसङ्क्रान्तिः, ध्यञ्जनादर्थसङ्क्रान्तिः, मनोयोगात् काययोगसङ्क्रान्तिर्वाग्योगसङ्क्रान्तिर्वा / एवं काययोगा मनोयोग वाग्योग वा सङ्कामति / तथा वाग्योगान्मनोयोगं काययोगं वेति / यत्र सङ्कामति तत्रैव निरोधो ध्यानमिति / एकस्य भाव एकत्वं, एकत्वगतो वितर्क एकत्ववितर्कः / एक १'कषायस्थः क्षीणकषायः क्षीण.' इति छ-पाठः। २'स्थानप्राप्त उपशमकषायः' इति च-पाठः। 3 'तर्क सवि.' इति -पाटः। 4 ' उप० ' इति ग-पाठः। ५'यत्र' इति च-पाठः।