________________ तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 "कालः समाधिर्ध्यानस्य, कायावस्था जितासनम् / / शुचिनिष्कण्टको देश-स्ते च स्त्री-पशु-पण्डकाः // 1 // " आलम्बनान्यपि वाचना-प्रच्छना-परिवर्तन-चिन्तनानि सद्धर्मावश्यकादीनि च सामायिकादीनि / एमिरालम्बनैर्धर्मध्यानं समारोहति ध्यानप्रतिपत्तिक्रमश्च मनोयोगनिग्रहादिः / भवकाले केवलिनः शेषस्य ध्यातुर्यथो समाध्यपेक्षमिति / लेश्यास्तु पीत-पद्म-शुक्लाख्यास्तीव-मन्दादिमेदाः। निसर्गा-अधिगमाभ्यामशेषजीवादिपदार्थश्रद्धानं जिनसाधुगुणोत्कीर्तनं प्रशंसा-विनय-दानानि च धर्मध्यानलिङ्गम् / "तस्मादथाप्रमत्त-स्थानात् स विशोधिमुत्तमं प्राप्य / स्थानान्तराण्यनेका न्यारोहति पूर्वविधिनैवः॥ 1 // आर्या देशे ततो विविक्ते, समे शुचौ जन्तुविरहिते कल्पे / ऋज्वायम्य स देह, बद्ध्वा पल्यङ्कमचलाङ्गः // 2 // -, वीरासनादि चासन-मथ समपादादि वाचलं स्थानम् / / यद् वाऽधिष्ठाय यतिः, शयनं चोत्तानशयनादि // 3 // -" ज्ञेयमखिलं.विविदिष-अधितिष्ठासंश्च मोक्षविधिमखिलम् / सन्धाय स्मृतिमात्मनि, किश्चिदुपावर्त्य दृष्टिं स्वाम् // 4 // , विषयेभ्य इन्द्रियाणि, प्रत्यवहृत्य च मनस्तथा तेभ्यः / धारयति मनः स्वात्मनि, योगं प्रणिधाय मोक्षाय // 5 // -, ध्यानं ततः सधये, भिक्षुर्विचिनोति मोहनाशाय / . उत्तमसंहननबलः, क्षपकश्रेणीमुपयियासन् // 6 // तल्लक्षणान्युपशमा-जेवमार्दवलाघवानि दृष्टानि। उपदेशाज्ञासूत्रनि-सर्गास्तद्रुचय इष्यन्ते // 7 // -, तत्प्रश्नवाचनानु-प्रेक्षापरिवर्तनावलम्बनकः। तदनुप्रेक्षाः संसा-रक्यानित्याशरणचिन्ताः // 8 // -, एकाग्रेण मनः स्वं, निरुध्य भावाजिनाज्ञया ग्राह्यान् / / विचिनोति यथातत्त्वं, तथैव च शुभाशुभापायान् // 9 // -" संस्थानानि च सर्व-द्रव्याणां कर्मफलविपाकाश्च / प्रवचनसम्भिन्नमति-विशुद्धलेश्याः प्रविचिनोति // 10 // 'मनःसमाधि ' इति च-पाठः। 2 पेक्षमेति' इति च-पाठः। 'स्तम' इति च-पाठः। ५'द्रचय' इति च-पाठः। 3 'तदाधि' इति च-पाठ /