________________ ' सूत्र 38.] स्वोपज्ञभाष्य-टीकालङ्कृतम् 271 - लोभस्य यावद बादरप्रकृतीर्वेदयति तावदनिवृत्तिबादरसम्परायसंयताः। ततः सूक्ष्मप्रकृतिवेदनाल्लोभकपायस्य सूक्ष्मसम्परायसंयतः उपशमकः सञ्चलनलोभमुपशमयति क्षपकः क्षपयति / यथोक्तम् " अथ सूक्ष्मसम्पराय-स्थानं प्राप्नोति बादरे लोभे / क्षीणे मूक्ष्मे लोमे-कपायशेषे विशुद्धात्मा // 1 // यत् सम्परायमुपजन-यन्ति स्वयमपि च सम्परायन्ति / व्यासङ्गहेतवस्ते न कषायाः सम्परायाख्याः // 2 // सम्यग्भावपरायण-हेतुत्वाद् वाऽपि सम्परायास्ते / 'प्रकृतिविशेषाच पुनर्लोभकषायस्य सूक्ष्मत्वम् // 3 // स ततो विशुद्धियोगे, नयति स्थानान्तरं व्रजस्तमपि / क्षपयन् गच्छति यावत्, क्षीणकषायत्वमाप्नोति // 4 // " ततोऽष्टाविंशतिविधमोहनीयोपशमादुपशान्तकपायवीतरागश्छद्मस्थः वीतो-गतो (रागो यस्मादिति वीतरागः) छद्म-आवरणं तत्र स्थितः छद्मस्थः मोहनीयस्य कृत्लक्षयात् स क्षीणकपायवीतरागच्छद्मस्थः ततः क्षीणकषायो धर्मशुक्लाद्यद्वयध्यानविशेषाद् यथाख्यातसंयमविशुद्धयाऽवशेषाणि कर्माणि क्षपयति / तत्र निद्राप्रचले द्विचरमसमये क्षपयति / ततोऽस्य चरमसमये आवरणद्वयान्तरायक्षयात् केवलज्ञानदर्शनमुत्पद्यत इति / धर्मध्यानानुप्रवेशपरिकर्माणि च भावनादेशकालासनादीनि। तत्र चतस्रो भावना ज्ञान-दर्शन-चारित्र-वैराग्याख्याः / ज्ञाने नित्याभ्यासान्मनसः तत्रैव प्रणिधानमवगतगुणसारश्च निश्चलमतिरनायासेनैव धर्म्य ध्यायति / तथा विगतशङ्कादिशल्यः प्रशम-संवेगनिर्वेदा-ऽनुकम्पा-ऽऽस्तिक्य-स्थैर्य-प्रभावना-यतना सेवन-भक्तियुक्तः असम्मूढचेता दर्शनभावनया विमलीकृतमतिरस्खलितमेव धर्म ध्यायति / तथा चरणभावनाधिष्ठितः कर्माण्यपराणि नादत्ते, पुरातननिर्जरणं शुमानि वा सञ्चिनुते / ततश्चायत्नेनैव धर्मध्यायी भवति / तथा जगत्कायस्वभावालोचनात् सुविदितजगत्स्वभावो निःसङ्गो निर्भयो विरागो वैराग्ये भावनावष्टब्धचेताः लीलयैव धर्मध्यायी भवति / देशोऽपि निष्कण्टको यः। कण्टकाः स्त्री-पशु-पण्डकाः / कालोऽपि यस्मिन्नेव काले मनसः समाधिरुत्पद्यते स एव ध्यानकालः / यथोक्तम् "त्थि कालो अकालो वा झायमाणस्स भिक्खुणो।" आसनं कायावस्थाविशेषः। य एवाबाधकोऽभ्यस्तो जितः स एव कायविकल्प आसनम् यथोक्तम् १वशेषाणि ' इति च-पाठः। 2 'विमलकृत' इति च-पाठः। नास्ति कालोऽकालो वा ध्यायमानस्य भिक्षोः।