________________ 270 तत्वार्थाधिगमसूत्रम् [ अध्यायः 1 संसारे तदपूर्वकरणम् / न तत्र कस्याश्चिदपि कर्मप्रकृतेरुपशमः क्षयो वा / उपशमनामिमुख्यात् तत्पुरस्कारादुपशमकः क्षपणार्हत्वाच्च क्षपक इति / उक्तं च "स ततः क्षपकश्रेणि, प्रतिपद्य चरित्रघातिनीः शेषाः / क्षपयन् मोहप्रकृतीः, प्रतिष्ठते शुद्धलेश्याकः॥१॥-आयो प्रविशत्यपूर्वकरणं, प्रस्थित एवं ततोऽपरं स्थानम् / तदपूर्वकरणमिष्टं, कदाचिदप्राप्तपूर्वत्वात् // 2 // " -" ततोऽप्युत्तरोत्तरविशोधिस्थानप्राप्त्या अनिवृत्तिस्थानं भवति / परस्परं नातिवर्तन्ते इत्यनिवृत्तयः / परस्परतुल्यवृत्तय इत्यर्थः। सम्परायाः कषायास्तदुदयो बादरो येषां ते मदरसम्परायाः। अनिवृत्तयश्च ते बादरसम्परायाश्च त इत्यर्थः। ते उपशमकाः क्षपकाए / तत्र न. सकस्त्रीवेदषट्नोकषायादिक्रमान्मोहप्रकृतीरुपशमकः शमयति "अणदसणपुंसगइत्थिवेयछक्कं च पुरसवेयं च / दो दो एगंतरिए, सरिसे सरिसं उवसमेइ ॥१॥"-आर्या -आवश्यकनियुक्तौ गा० 116 क्षपको निद्रानिद्रादिउदय(यादित्रय?)क्षयात् त्रयोदशनामकर्मक्षयाचाप्रत्याख्यानावरणादि कायाकनपुंसकत्रीवेदक्रमाच क्षपयति / उक्तं च " अथ स क्षपयति निद्रा-निद्रादित्रयमशेषतस्तत्र / नरकगमनानुपूर्वी, नरकगतिं चापि कात्स्न्र्येन // 1 // आर्या सूक्ष्मस्थावरसाधा-रणातपोद्योतनामकर्माणि / तिर्यग्गतिनाम तथा, तिर्यग्गत्यानुपू- च // 2 // - चतुरेकद्वितीन्द्रिय-नामानि तथैव नाशमुपयान्ति / तिर्यग्गतियोग्यास्ताः, प्रकृतय एकादश प्रोक्ताः // 3 // -, अष्टौ ततः कषायान् , पण्डकवेदं ततस्ततः स्त्रीत्वम् / क्षपयति पुंवेदे सङ्-क्रमय्य षण्णोकषायांश्च // 4 // -- पुंस्त्वं क्रोधे क्रोध, माने मानं तथैव मायायाम् / मायां च तथा लोभे, स क्षपयति सङ्क्रमय्य ततः // 5 // -, १छाया अनदर्शनपुंसकत्रीवेदषदकं च पुरुषवेदं च / द्वी द्वौ एकान्तरितौ सदृशे सहशं उपशामयति // 2' पूर्व्याच ' इति ग-पाठः, 'पूर्वी च ' इति च-पाठः। 3 ''वेदो' इति पाठः।