________________ सूत्र 38] स्वोपज्ञभाष्य-टीकालङ्कृतम् 269 - अतो विशुद्धाद्धायां वर्तमानोऽप्रमत्तसंयतस्तस्य च भगवतो धर्मध्यानादितपोयोगैः कर्माणि क्षपयतो विशोधिस्थानान्तराणि आरोहतः ऋद्धिविशेषाः प्रादुर्भवन्त्यणिमादयः / उक्तं हि "अवगाहते च स श्रुत-जलधिं प्राप्नोति चावधिज्ञानम् / मानसपर्याय वा, विज्ञानं वा कोष्टादिबुद्धिर्वा // १॥–आर्या चारणवैक्रियसौं-पधा[व]द्यावापि लब्धयस्तस्य / / प्रादुर्भवन्ति गुणतो, बलानि वा मानसादीनि // 2 // "-, अत्र च श्रेणिप्राप्त्यभिमुखः प्रथमकषायान् दृष्टिमोहत्रयं चाविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम उपशमश्रेण्याऽभिमुख्यादुपशमयति, क्षपकश्रेण्याभिमुख्यात् क्षपयति / यथोक्तम् "क्षपयति तेन ध्याने न ततोऽनन्तानुबन्धिनश्चतुरः। मिथ्यात्वं संमिश्र, सम्यक्त्वं च क्रमेण ततः॥१॥-आर्या क्षीयन्ते हि कषायाः, प्रथमास्त्रिविधोऽपि दृष्टिमोहश्च / / देशयतायतसम्यग्-दृगप्रमत्तप्रमत्तेषु // 2 // - पाणिग्राहारीस्तान् , निहत्य विगतस्पृहो विदीर्णभयः। प्रीतिसुखमपक्षोभः, प्राप्नोति समाधिमत्स्थानम् // 3 // "-, इति // 37 // किश्चान्यदित्यनेन खाम्यन्तरं सम्बनाति सूत्रम्-उपशान्तक्षीणकषाययोश्च // 9-38 // भा०–उपशान्तकषायस्य क्षीणकषायस्य च धर्म ध्यानं भवति // 38 // किश्चान्यत् टी-चशब्दः समुच्चये। कषायशब्दः प्रत्येकमभिसम्बध्यते / उपशान्ताः कषाया यस्यासावुपशान्तकषायः एकादशगुणस्थानवर्ती / क्षीणाः कषाया यस्य स क्षीणकषायः। भसच्छन्नाग्निवदुपशान्ताः निरवशेषतः परिशटिताः क्षीणा विध्मातहुताशनवदनयोश्च उपशान्तक्षीणकषाययोरप्रमत्तसंयतस्य च ध्यानं धर्म भवति / तत्रोपशान्तक्षीणकषायस्वरूपनिनिाय अधस्तनं गुणस्थानत्रयमवश्यंतया प्ररूपणीयम् , अन्यथा तदपरिज्ञानमेव स्यादिति / अप्रमत्तस्थानादसङ्ख्येयानि विशोधिस्थानान्यारुह्यापूर्वकरणं प्रविशति / समये समये स्थिति-घात-रसघातस्थितिबन्ध-गुणश्रेणि गुणसङ्क्रमणकरणमपूर्व निर्गच्छतीत्यपूर्वकरणम् / अप्राप्तपूर्वकत्वाद् वा १.भिमुख' इति उ-पाठः। 2 'यतायतेन सम्यग् ' इति च-पादः /