________________ 286 तवार्थाधिगममूत्रम् [ अध्याय: 9 टी-एते पुलाकादय इत्यादि। एत इत्युक्तलक्षणाः पुलाकादयः पञ्च निर्ग्रन्थाः। एभिः संयमादिभिरष्टाभिरनुगमविकल्पैरनुगमनम् -अनुसरणमनुगमोऽनुयोगद्वाराण्यापैणमुखानि तद्विकल्पैः-तद्भेदैः साध्या भवन्ति / तद्यथेत्यादिना / तान् संयमादिविकल्पानुपन्यस्यति / संयम इति प्रथमोऽनुगमविकल्पः / पुलाकादीनां पश्चानां निर्ग्रन्थानां कः कस्मिन् संयमे सामायिकादौ भवति-वर्तत इत्यज्ञप्रश्नः / उच्यते---यो यस्मिन् संयमादौ भवति स तथा भण्यते / पुलाक-धकुश-प्रतिसेवनाकुशीलास्त्रयो निर्ग्रन्थाः संयमद्वये वर्तन्ते सामयिकसंयमे छेदोपस्थाप्यसंयमे च / तत्र पुलाकः पञ्चपुलाकस्य पञ्च भेदः ज्ञान-दर्शन-चरण-लिङ्ग मूक्ष्माख्यः / स्वलितादिभिानपुलाकः / विधता ___ कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः / मूलोत्तरगुणप्रतिसेवनातवरणपुलाकः / यथोक्तलिङ्गाधिकरणाल्लिङ्गपुलाकः / किश्चित्प्रमादात् सूक्ष्मपुलाकः / एवं पञ्चप्रकासेऽपि संयमद्वये वर्तते / बकुशोऽपि आभोगा ऽनाभोग संघृता-संवृत-सूक्ष्मबबकुशादेः पाञ्च दिपाश्च- कुशभेदात् पश्चप्रकारः / तत्र सश्चिन्त्यकारी आभोगबकुशः / सहसाकारी विध्यम् - अनाभोगबकुशः / प्रच्छन्नकारी संवृतबकुशः / प्रकटकारी असंवृतबकुशः / किश्चित्प्रमादी सूक्ष्मबकुशः / प्रतिसेवनाकुशीलोऽपि ज्ञान-दर्शन-चरण लिङ्ग सूक्ष्मभेदेन पञ्चप्रकारः / ज्ञानाद्यतिचारप्रतिसेवनादिति / प्रतिगता सेवना प्रतिसेवना / क्रियायोगात्यये सत्युपसर्गसञ्ज्ञाभावात् षत्वाभावोऽतिसिक्तवत् / अन्ये तु प्रतिषेवणामेवेच्छन्ति / कषाय कुशीलाः परिहारविशुद्धिसंयमे सूक्ष्मसम्परायसंयमे च द्वयोरेव तान्तरम् दर्शिता भाष्यकारेण / अपरे तु ब्रुवते-"कषायकुशीलाः सामायिकादिषु चतुर्पु संयमेषु यथाख्यातसंयमरहितेषु वर्तन्ते"। यथाऽऽह "आधचारित्रयोराधा-स्त्रय एकश्चतुर्वपि / निम्रन्थ-स्नातकौ नित्यं, यथाख्यातचरित्रिणौ ॥१॥"-अनु० प्रतिसेवनाकुशीलवत् कषायकुशीलोऽपि पञ्चभेद एव / निर्ग्रन्थः स्नातकश्च एकस्मिन्नेव यथाख्यातसंयमे वर्तेते / उपशान्तक्षीणमोहा निर्ग्रन्थाः / स्नातकाः सयोगायोगकेवलिनः / निर्ग्रन्थोऽपि पश्चमेद एव, प्रथमसमया-प्रथमसमय-चरमसमया-ऽचरमसमय-सूक्ष्मभेदतः / स्नातकोऽपि पश्चप्रकारः-अच्छविः, अशबलः, अकांशः, अपरिश्रावी, संशुद्धज्ञानदर्शनधरश्चेति / छवि:---शरीरं तदभावात् काययोगनिरोधे सति अच्छविर्भवति / निरतिचारत्वादशबलः / क्षपितकर्मत्वादकांशः / निष्क्रियत्वात् सकलयोगनिरोधे त्वपरिश्रावी / ज्ञानान्तरेणासम्पृक्तत्वात् संशुद्धज्ञानदर्शनधर इति / / १.स्खलनादिमिः' इति हु-पाठः। २'आमिकानाभोग' इति ग-पाठः।