________________ सूत्र 37 ] स्वोपज्ञभाष्य-टीकालङ्कृतम् 267 देशविरतश्च कृतद्वन्द्वौ स्वामिनी रौद्रध्यानस्य निर्दिष्टौ षष्ठीद्विवचनेन / अविरत-देशविरतयोस्तु रौद्रध्यानमेतावस्य ध्यातारावित्यर्थः। एतदेव भाष्यकारो विवृणोति-हिंसार्थमित्यादिना / स्पष्टमेव तादर्थ्य दर्शयति / "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" (अ० 7, मू० 8) तच्च सवव्यापादनोद्भन्धपरितापनताडनकरचरणश्रवणनासिकाऽधरवृषणशिश्नादिच्छेदनस्वभाव हिंसानन्दम् / तत्र स्मृतिसमन्वाहारो रौद्रध्यानम् / ये चे जीवव्यापादनोपायाः परस्य च दुःखोत्पादनप्रयोगास्तेषु च स्मृतिसमन्वाहारो हिंसानन्दमिति प्रथमो विकल्पः / ___ प्रबलरागद्वेषमोहस्य अनृतप्रयोजनवत् कन्याक्षितिनिक्षेपापलापपिशुनासत्यासद्भूतघातामिसन्धानप्रवणमसदभिधानमनृतं तत्परोपघातार्थमनुपरततीवरौद्राशयस्य स्मृतेः समन्वाहारः / खत्रैवं दृढप्रणिधानमनृतानन्दमिति / स्तेयार्थ स्तेयप्रयोजनमधुनोच्यते / तीव्रसङ्क्लेशाध्यवसायस्य ध्यातुः प्रबलीभूतलोभप्रचा' राहितसंस्कारस्य अपास्तपरलोकापेक्षस्य परस्वादित्सोरकुशलः स्मृतिसमन्वाहारः / द्रव्यहरणोपाय एव चेतसो निरोधः प्रणिधानमित्यर्थः / विषयसंरक्षणार्थ चेति चतुर्थो विकल्पः / चशब्दः समुच्चये / विषयपरिपालनप्रयोजन _ च भवति रौद्रं ध्यानम् / विषमिव यान्ति विसर्पन्ति परिभुज्यमानाः / विषयशब्दस्य निष्पादनम् 4 पृषोदरादित्वात् संस्कारः / अथवा 'पिञ् बन्धने (पा० धा० 1478) " भोक्तारं विशेषेण विविधं वा सिन्वन्ति-बध्नन्तीति विषयाः-शब्दादयः / तत्साधनानि च चेतनाचेतनव्यामिश्रवस्तूनि विषयशब्दवाच्यानि / विपीदन्ति वा प्राणिनो येषु परिभुञ्जानास्ते विषयाः / यथोक्तं (प्रशमरतौ श्लो० 107) " यद्यपि निषेव्यमाणा, मनसः परितुष्टिकारका विषयाः। किम्पाकफलादनवद, भवन्ति पश्चादतिदुरन्ताः ॥"-आर्या विषयाणां च संरक्षणमुक्त परिग्रहेष्वप्राप्तनष्टेषु काङ्क्षाशोको प्राप्तेषु रक्षणमुपभोगे चावितृप्तिः / इत्थं च विषयसंरक्षणाहितक्रौर्यस्य म्लेच्छमलिम्लुचाग्निक्षेत्रमृद्दायादिभ्यः समुदितायुधस्यानायुधस्य वा रक्षतः तीत्रेण लोभकषायेणानुरक्तचेतसः तद्गतप्रणिधानस्य तत्रैव स्मृतिसमन्वाहारमाचरतो विषयसंरक्षणानन्दम् रौद्रं भवति ध्यानम् / तच्चैतदविरतस्वामिकम् / तौ च पूर्वोक्तलक्षणौ / तयोरेव च भवत्येतत् प्रमत्तसंयतादीनामिति / रौद्रध्यायिनः तीव्रसंक्लिष्टोः कापोतनीलकृष्णलेश्यास्तिस्रस्तदनुगमाच्च नरकगतिमूलमेतत् / पर्याप्तमादाय कर्मजालं दुरन्तं १.ये च व्यापादनो' इति हु-पाठः। 2' प्रसंगा' इति च-पाठः। 3 'ध्वप्राप्तनष्टेषु' इति च-पाठः। 'स्येव त(१) प्रमत्त' इति ग-पाठः। 5 'संक्लेशाः' इति उ-पाठः। 6 'नीललेझ्या ' इति उ-पाठः /