________________ 266 तत्त्वार्थाधिगमसूत्रम् [ मध्यायः 9 आर्तरौद्रे व्याख्याते / सम्प्रति धर्मध्यानव्याख्यावसरः। तच्च समेदं सखामिकमाख्यायतेधर्मध्यानस्य चातु- सूत्रम्-आज्ञा-पाय-विपाक-संस्थानविचयाय धर्ममप्र 'मिनच मत्तसंयतस्य // 9-37 // धर्मध्यानस्य चातुर्षिभ्यं तत्स्वा भा०-आज्ञाविचयाय अपायविचयाय विपाकविचयाय संस्थानविषयाय च स्मृतिसमन्वाहारो धर्मध्यानम् / तदप्रमत्तसंयतस्य भवति // 37 / / किश्चान्यत् टी-आज्ञादीनां कृतद्वन्द्वानां विचयशब्देन सह षष्ठीसमासः। आज्ञादीनां विचयःपर्यालोचनम्। विचयशब्दः प्रत्येकमभिसम्बध्यते / आज्ञाऽपायविपाकसंस्थानविचयशब्दात् तादर्थे चतुर्थी / धर्मशब्दो व्याख्यातः। अप्रमत्तसंयतस्येति स्वामिनिर्देशः / तत्राज्ञासर्वज्ञप्रणीत आगमः / तामाज्ञामित्थं विचिनुयात्-पर्यालोचयेत्-पूर्वापरविशुद्धामतिनिपुणामशेषजीवकायहितामनवद्यां महार्था महानुभावां निपुणजनविज्ञेयां द्रव्यपर्यायप्रपञ्चवतीमनाद्यनिधनां " इच्चेइयं दुवालसंगं गणिपिडगं न कयाइ णासी" इत्यादि (नन्दी सू०५८) वचनात् / सत्र प्रज्ञायाः परिदुर्बलत्वादुपयुक्तेऽपि सूक्ष्मया शेमुष्या यदि नावैति भूतमर्थ सावरणज्ञानत्वात् / यथोक्तम् "नहि नामानाभोग-च्छमस्थस्येह कस्यचिन्नास्ति / ज्ञानावरणीयं हि, ज्ञानावरणप्रकृति कर्म ॥१॥"-आर्या तथाप्येवं विचिन्वतोऽवितथवादिनः क्षीणरागद्वेषमोहाः सर्वज्ञा नान्यथाव्यवस्थितमन्यथावयन्ति भाषन्ते वाऽनृतकारणाभावात् / अतः सत्यमिदं शासनमनेकदुःखगहनात् संसारसागरादुत्तारकमित्याज्ञायां स्मृतिसमन्वाहारः। प्रथमं धर्मध्यानमाज्ञाविचयाख्यम् / _ अपायविचयं द्वितीयं धर्मध्यानमुच्यते / अपाया-विपदः शारीर-मानसानि दुःखानीति पर्यायास्तेषां विचयः-अन्वेषणमिहामुत्र च रागद्वेषाकुलितचेतोवृत्तयः सत्त्वा मूलोत्तरप्रकृतिविभागार्पितजन्मजरामरणार्णवभ्रमणपरिखेदितान्तरात्मानः सांसारिकसुखप्रपञ्चेष्ववितप्तमानसाः कायेन्द्रियादिष्वास्रवद्वारप्रवाहेषु वर्तमाना मिथ्यात्वाज्ञानाविरतिपरिणतिमिनिवृत्ताः / प्रातिपदिकात् तादयें चतुर्थीबहुवचनम् / हिंसायै हिंसाथ हिंसाप्रयोजनं रौद्रं भवति ध्यानम् / एवमनृताय स्तेयाय विषयसंरक्षणाय चेति वाच्यं रौद्रमित्युक्तं निर्वचनं प्राक् / अविरतय 1 छाया इत्येतद् द्वादशाङ्ग गणिपिटक न कदापि नासीत् / १.विचित्रता' इति च-पाठः /