________________ विकल्प विकल्पः सूत्रै 33-34] स्वोपज्ञभाष्य-टीकालङ्कृतम् 263 तृतीय- सूत्रम्-विपरीतमनोज्ञानाम् // 9--33 // भा०---मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया विप्रयोगे तत्सम्प्रयोगाय स्मृतिसमन्वाहार आतम् // 33 // किश्चान्यत् टी-मनोज्ञा-अभिरुचिता इष्टाः प्रीतिहेतवः तेषां विपरीत संयोजन कार्यम् / मनोज्ञानामित्यादि / मनोज्ञानां विषयाणां वेदनायाश्च मनोज्ञायाः विपरीतप्रधानार्थाभिसम्बन्धो विपरीतशब्देन क्रियत इत्याह-विप्रयोगे तत्सम्प्रयोगायेत्यादि। तत्सम्प्रयोगार्थ: तत्सम्प्रयोगाय सम्प्रयोगप्रयोजनः स्मृतः समन्वाहारः। कथं नु नाम भूयोऽपि तैः सह मनोज्ञविषयैः संप्रयोगः स्यान्ममेति / एवं प्रणिधत्ते दृढं मनस्तदप्यामिति // 33 // किश्चान्यदिति तुरीयमार्तप्रकारं दर्शयति थों सूत्रम्-निदानं च // 9-34 // टी-निपूर्वाद् दातेर्लवनार्थस्य ल्युटि रूपम् / निदायते लूयते लुप्यते येनात्महितमैनिदानशब्दस्य कान्तिकात्यन्तिकानाबाधसुखलक्षणं तन्निदानमिति / पशब्दः समुच्चये / सिद्धिः। एष चार्तप्रकार इत्यर्थः / भा०-कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यान भवति // 34 // टी-कामोपहतचित्तानामित्यादि। काम-इच्छाविशेषः शब्दाधुपयोगविषयः। अथवा मदनः-कामः चिरमुग्रतपोनिष्ठाय कर्मक्षपणक्षमदीर्घदर्शितया खल्पस्य विनश्वरस्यावितृप्तिकारिणः सुरमनुजसुखैश्वर्यसौभाग्यादेः कृते तत्रैव कृतदृढप्रणिधाना बहविनश्वरं सतततृप्तिकारणमुक्तिसुखमनुपममेवमन्य, प्रवर्तमानाः कामोपहतचेतसः पुनर्भवविषयगृद्धा विदधति यन्निदानं तदार्तध्यानं निदानरूपम् / एष एवार्थो विभक्त्यन्तरेण प्रतिपादितः / कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तव्यानं भवतीति / तस्यैतस्यार्तध्यानस्य चतुःप्रकारस्यापि शोकादीनि लक्षणानि भवन्ति / यैरातध्यायी लक्ष्यते करतलपर्याप्तप्रम्लानवदनः शोचति कन्दति विलपति हा हा अहो धिक् कष्टं हुँ मानस्योरस्ताडं परिदेवते दीर्घ निश्वसिति कवोष्णं शून्यव्याक्षिप्तचित्त इवोपलक्ष्यते / तथा कलहमायामात्सर्यास्यास्तथा अरतिः स्त्रीभोजनकथासुहृत्स्वजनानुरागाश्च तस्य लक्षणानि भवन्ति परिस्फुटानीति // 34 // ___इत्थमार्तध्यान सभेदकमभिधायाऽधुनास्यैव ध्यातारः स्वामिनो निरूप्यन्ते इति तदर्थमाह १'मवगम्य' इतिच पाठः। 2 'पर्यस्तप्रम्लान 'इति ग-पाठः, 'पर्यन्तप्रलान..तित-पाठः / 3 'मारस्ताडनं' इति ङ-पाठः।