________________ 264 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 9 आर्तध्यानस्य सूत्रम्-तदविरतदेशविरतप्रमत्तसंयतानाम् / 9-35 // स्वामिनः भा०-तदेतदातध्यानं अविरतदेशविरतप्रमत्तसंयतानामेव भवतीति // 35 // टी-तदित्यार्तमभिसम्बध्यते / तदार्तध्यानमविरतसम्यग्दृष्टयादीनां त्रयाणां खामिनां सम्भवति / एतस्य त्रयः स्वामिनश्चतुर्थ-पञ्चम-षष्ठगुणस्थानवर्तिनः क्रमेणाविरतदेशविरतप्रमत्तसंयताः। अविरतश्चासौ सम्यग्दृष्टिश्चेति अविरतसम्यग्दृष्टिः प्रत्याख्यानावरेणोदये सति विरतिलक्षणस्य संयमस्याभावादविरतसम्यग्दृष्टिः। आह च "आवृण्वन्ति प्रत्या-ख्यानं स्वल्पमपि येन जीवस्य / तेनाप्रत्याख्याना-वरणास्ते नञ् हिंसोऽल्पार्थः ॥१॥-आर्या .. प्रत्याख्यानावरणसदृक्त्वाद् वा तत् तथा भवति सिद्धम् / न त्वब्राह्मणवचने, तत्सदृशः पुरुष एवेष्टः॥२॥"-आयो औपशमिक-क्षायोपशमिक-क्षायिकभेदाच्च त्रिविधं सम्यग्दर्शनं, तद्योगात् सम्यग्दृष्टिः देशविरतः संयतासंयतः हिंसादिभ्यो देशतो विरतत्वात् संयतः, अन्यतः सावधयोगादनिश्च इति स एवासंयतः, सोऽविरतसम्यग्दृष्टिस्थानादसंख्येयानि विशोधिस्थानानि गत्वा अप्रत्याख्यानावरणकषायेषु क्षयोपशमं नीतेषु प्रत्याख्यानावरणकषायोदयात् कृत्स्नप्रत्याख्यानाभावाद् देशविरतः / आह च " तस्मादविरतसम्यग्-दृष्टिस्थानाद् विशोधिमुपगम्य / स्थानान्तराण्यनेका-न्यारोहति पूर्वविधिनैव ॥१॥-आर्या क्षपयत्युपशमयति वा, प्रत्याख्यानावृतः कषायांस्तान्। सततो येन भवेत् त-स्य विरमणे बुद्धिरल्पेऽल्पा // 2 // -, तस्य तथैव विशोधि-स्थानान्यारोहतोऽतिसङ्खयानि / गच्छन्ति सर्वथापि, प्रकर्षतस्ते क्षयोपशमम् // 3 // -, श्रावकधर्मो द्वादश-भेदः सञ्जायते ततस्तस्य / पञ्चत्रिचतुःसङ्खय-व्रतगुणशिक्षामयः शुद्धः // 4 // -, सर्वे प्रत्याख्यानं, येनावृण्वन्ति तदभिलपतोऽपि / तेन प्रत्याख्याना-वरणास्ते निर्विशेषोक्ताः // 5 // "-, इदानीं प्रमत्तसंयतः / तस्मादसङ्खयेयानि विशोधिस्थानान्यारोहतस्तृतीयकषायेषु प्रकर्षात् क्षयोपशमं गतेषु सर्वसावद्ययोगप्रत्याख्यानविरतिर्भवति / उक्तं च 1 'संयताना' इति ङ-पाठः / 2 वरणो देशविरति' इति च-पाठः / 3 'संयतीसंयतः' इति घ-पाठः। ४'घितस्थानानि' इति च-पाठः / ५'शमनीयेषु' इति घ-पाठः /