________________ 262 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 1 मार्तस्य प्रथमो सूत्रम्-आर्तममनोज्ञानां सम्प्रयोगे तद्रिप्रयोगाय विकल्पः स्मृतिसमन्वाहारः॥ 9-31 // मा०-अमनोज्ञानां विषयाणां सम्प्रयोगे तेषां विप्रयोगार्थ यः स्मृतिसमम्वाहारो भवति तदातध्यानमित्याचक्षते // 31 // किश्चान्यत् टी०-आर्तमनोज्ञानां इत्यादि / आर्तशब्दः पूर्ववद् व्याख्येयः / अयं चापरप्रकारः। ____ अर्तिर्धातुर्दुःखार्थः / तस्यातिरिति रूपम् / अर्तिश्च-दुःखं शारीरं मानसं भातशब्दस्य स्य चानेकप्रकारं तस्यां भवमात ध्यानम् / अमनोज्ञा अनिष्टाः शब्दादयः निष्पत्तिः " तेषां सम्बन्धे इन्द्रियेण सह सम्पर्के सति चतुर्णा शब्द-स्पर्श-रस-गन्धानामेकस्य च योग्यदेशावस्थितस्य द्रव्यादेस्तेने विषयिणा ग्राह्यग्राहकलक्षणे सम्प्रयोगे सति तदिप्रयोगायेति / तदित्यमनोज्ञविषयाभिसम्बन्धः / तेषाममनोज्ञानां शब्दादिनां विप्रयोगः अपगमस्तदर्थं विप्रयोगायानिष्टशब्दादिविषयपरिहाराय यः स्मृतिसमन्वाहारस्तदातम् / स्मृतिसमन्वाहारो नाम तद्विप्रयोगादेवानुग्रहप्रतिपत्तीच्छया य आत्मनः प्रणिधानविशेषः स समन्वाहारः स्मृतेः कथमहमलादमनोज्ञविषयसम्प्रयोगाद् विमुच्येयेति / स्मयतेऽनेनेति स्मृतिमनोऽभिधीयते / स्मृतिहेतुत्वाद् वा स्मृतिर्मनः। तस्याः स्मृतेः प्रणिधानरूपायाः समम्बाहरणं समन्वाहारः / अमनोज्ञविषयविप्रयोगोपाये व्यवस्थापनं मनसो निश्चलमार्तध्यान केनोपायेन वियोगः स्यादित्येकतानमनोनिवेशनमार्तध्यानमित्यर्थः // 31 // किश्चान्यदिति सम्बध्नाति / प्रकारान्तरमन्यदस्यार्तस्यास्तीत्याहमार्तस्य द्वितीयो "विकल्याचा सूत्रम्-वेदनायाश्च // 9--32 // टी०-वेदन-वेदनाया अनुभवः / अनन्तरसूत्रमनुवर्तते तदभिसम्बभन् भाष्यकृदाह भा०-वेदनायाश्चामनोज्ञायाः सम्प्रयोगे तदिप्रयोगाय स्मृतिसमन्वाहार आर्तमिति // 32 // किश्चान्यत्___टी-वेदनाया अमनोज्ञाया इत्यादि / सुखा दुःखा चोभयी घेदना / तत्रामनोज्ञायाः सम्प्रयोगे वेदनायाः प्रकुपितपवनपित्तश्लेष्मसन्निपातनिमित्तैरुपजातायाः शूलशिरःकम्पज्वराक्षिश्रवणदशनादिकायास्तद्विप्रयोगाय स्मृतिसमन्वाहारो ध्यानमार्तमेष द्वितीयो विकल्पः / किश्चान्यदित्यार्तप्रकारान्तरं दर्शयति 1 'स्वेन' इति ङ पाठः।