________________ सूत्र 30] स्वोपज्ञभाष्य टीकालङ्कृतम् 261 . ०-कृतद्वन्द्वान्यादीनि नपुंसकबहुवचनेन निर्दिष्टानि-तचतुर्विधं भवतीस्यादि। तद्धयानं सामान्येन लक्षितं चतुर्विधं भवति-चतुर्धा भिद्यते / चतस्रो विधा यस्य तच्चतुर्विधम् / 'विधाप्रदर्शनायाह-तद्यथेति / आर्त, रौद्रं, धणे, शुक्लमिति / तत्रार्तस्य शब्दनिर्भदाभिधानम् / अतशब्दो दुःखपर्यायवाच्याश्रीयते / अर्तेगमिक्रियापरिस्पन्दिनो . निष्ठाप्रत्ययान्तः / तस्मादागतार्थे तद्धितप्रत्ययो णित् / आर्त दुःखभवं भार्तादीनां MAN दुःखानुबन्धि चेति / तथाचामनोज्ञविषयप्रयोगो दुःखम् / वेदना च नेत्र " शिरोदशनादिका दुःखमेव / तथा मनोज्ञविषयविप्रयोगोऽशमैव / निदानमपि चित्तदुःखासिकयैव क्रियत इत्युपपन्नः प्रत्ययार्थः / तथा रोदयत्यपरानिति रुद्रो दुःखस्य हेतुः तेन कृतं तत्कर्म वा रौद्रं प्राणिवधबन्धपरिणत आत्मैव रुद्र इत्यर्थः। धर्मः क्षमादिदशलक्षणकस्तस्मादनपेतं. धर्म्यम् / शुक्ल-शुचि निर्मलं सकलकर्मक्षयहेतुत्वादिति / शुग्वा दुःखमष्टप्रकारं कर्म तो च शुचं क्लमयति-ग्लपयति निरस्यति शुक्लं इत्येतावदेव ध्यानं चतुर्विधमिति // 29 // तेषामित्यनेन सूत्र सम्बनाति सूत्रम्-परे मोक्षहेतू // 9-30 // भा०–तेषां चतुर्णा ध्यानानां परे धर्म्य-शुक्ले मोक्षहेतु भवतः। पूर्वे स्वार्तरौद्रे संसारहेतू इति // 30 // टी०-तेषां चतुर्णामित्यादि / यानि प्रस्तुतानि ध्यानानि तेषामार्त-रौद्र-धर्म-शुक्लानां चतुणां ध्यानानां सूत्रसभिवेशमाश्रित्य परे धर्म्य-शुक्ले मोक्षहेतु-मुक्तेः कारणतां प्रतिपद्यते। तत्रापि साक्षात् मुक्तेः कारणीभवतः। पाश्चात्यौ शुक्लध्यानभेदी सूक्ष्मक्रियमप्रतिपाति व्युपरतक्रियां वा निवर्ति, धर्म्यध्यानं पुनराद्याभ्यां सह शुक्लभेदाभ्यां पारंपर्येण मोक्षस्य कारणं भवति, न साक्षादिति / ततश्चैतद्धर्म्यध्यानादि देवगतेमुक्तेश्च कारणं, न मुक्तरेव / अर्थादिदमगम्यमानमाह-पूर्वे त्वार्तरौद्र संसारहेतु इति / आर्त-रौद्रयोः संसारहेतुतैव, न जातुचिन्मुक्तिहेतुता। संसारश्च नारकादिभेदश्चतुर्गतिक इति / परमार्थतस्तु रागद्वेषमोहाः संसारहेतवः। तदनुगत चार्तरौद्ररूपमपि प्रकृष्टतमरागद्वेषमोहभाजः, अतः संसारपरिभ्रमणहेतुता तयोरिति // 30 // भा०-अत्राह-किमेषां लक्षणमिति ? / अत्रोच्यते टी.-सम्प्रति ध्येयप्रकाराः विषयविपयिविकल्पनिमित्तभेदेनोच्यन्ते--अत्राहेत्यादि। सम्बन्धो लक्ष्यते येन तल्लक्षणं विलापशोकादि / अमनोज्ञविषयसम्बन्धे क्रन्दति शोचतीति लक्ष्यते आर्तध्यायी॥ 'तत्प्रदर्शनाय" इति पाठः। 'विधानप्र.' इति च पाठः।