________________ 260 तत्वार्थाधिगमसूत्रम् [ अध्यायः 9 मनोव्यापारः समस्ति, सकलकरणग्रामनिरपेक्षत्वादिति / तद्युक्तस्येति तेन प्रतिविशिष्टेन संहननत्रयेणाद्येन चतुर्विधेन वा युक्तस्य-सम्पन्नस्य / एकाग्रचिन्तानिरोधः। चशब्दाद् वाक्-कायनिरोधश्च ध्यानम्। अत्र च ध्याता संसार्यात्मा ध्यानस्वरूपमेकाग्रचिन्तानिरोधः। ध्यातिानमिति भावसाधनः / कालतो मुहूर्तमात्रं चतुःप्रकारमादिभेदेन / ध्येयप्रकारास्त्वमनोज्ञविषयसंप्रयोगादयः। शोकाक्रन्दनविलपनादिलक्षणमात, उत्सनबद्धादिलक्षणं रौद्रं, जिनप्रणीतभावश्रद्धानादिलिङ्गं धये, अबाधाऽसम्मोहादिलक्षणं शुक्लम् / फलं पुनस्तियङ्-नरक-देवगत्यादिमोक्षाख्यमिति क्रमेण उत्तमसंहननपदार्थलभ्यो ध्याता अभिहितः। ध्यानस्वरूपं भावसाधनता च विज्ञेया // 27 // सम्प्रति ध्यानकालप्रमाणनिरूपणायाहध्यानस्य कालमानम् सूत्रम्-आ मुहूर्तात् // 9-28 // . भा०–तद्धधानमा मुहूर्तात् भवति परतो न भवति दुनित्वात् // 28 // टी०-आ मुहूर्तादिति / घटिकाद्वयं मुहूर्तः। अभिविधावाङ् / अन्तर्मुहूर्तपरिमाणं न परतो मुहूर्तादित्यर्थः। तद्धयानमित्यादि / तदेतत् सामान्यलक्षणोक्तं ध्यानं चतुर्विधमप्यामुहूर्तात् भवति, परतो न भवत्यशक्तेरेव / यस्मान्मोहनीयकर्मानुभावात् संक्लेशाद् वा विशोध्य वान्तर्मुहूर्तात् परावर्तते / उक्तं च- . "नान्तर्मुहूर्तकालं, व्यतीत्य शक्यं हि जगति सङ्क्लेष्टुम् / नापि विशोढुं शक्यं, प्रत्यक्षो ह्यात्मनः सोऽर्थः ॥"-आर्या . किं पुनः कारणं परतो न ध्यानमस्तीत्याह-दुर्ध्यानत्वात्। दुरितिशब्दो वैकृते वर्तते / विकृतो वर्णो दुर्वर्ण इति यथा, एवं विकृतं ध्यानं विकारान्तरमापत्रं दुनिमिति / अथवा व्युद्धौ दुःशब्दः / ऋद्धिवियुक्ता यवना दुर्यवनं दुष्क(ष्टं?) बीजमिति / एवं दुःशब्दस्य अथाः ध्यानलक्षणविनिर्मुक्तं दुनिं / अनीप्सायां वा दुःशब्दः। अनीप्सितोऽस्या भग इति दुर्भगा कन्या / एवमनीप्सितं दुनिमिति तद्भावो दुर्ध्यानत्वं तस्माद् दुर्थ्यानत्वान्न परतो ध्यानमस्ति // 28 // सामान्येन ध्यानलक्षणमभिधाय सम्प्रति भेदकथनायाहध्यानस्य चतुर्विधता सूत्रम्-आर्त-रौद्र-धर्म्य शुक्लानि // 9-29 // भा०–तचतुर्विधं भवति-तद्यथा आर्त, रौद्र, धर्म्य, शुक्लमिति // 29 // तेषाम् 'प्यानमिति' इति ग-पाठः / २'धर्म' इति घ-पाठः। 3 'धर्म' इति घ-पाठः /