________________ सूत्रे 26-27 ] स्त्रोपज्ञभाष्य-टीकालङ्कृतम् 259 259 अधुना व्युत्सर्गो व्याख्यायते सूत्रम्-बाह्या-ऽभ्यन्तरोपध्योः // 9-26 // भा०-व्युत्सगों विविधः-बाह्योऽभ्यन्तरश्च / तत्र बाह्यो बादशरूपकस्योपधेः। अभ्यन्तरः शरीरस्य कषायाणां चेति // 26 // टी.-न्युत्सर्गो विविध इत्यादि / विविधस्योत्सर्गो व्युत्सर्गः / संसक्तासंसक्तपानादेः विधिना प्रवचनविहितेनोत्सर्गो व्युत्सगः / स द्विप्रकारः बाधा-ऽभ्यन्तरभेदात् / तत्र तयोर्यायस्य तावद् द्वादशरूपफस्योपधेः पात्रतद्वन्धपात्रस्थापनादीनि द्वादश रूपाण्यस्येति द्वादशरूपकः / उपग्राहकत्वादुपकारत्वादुपधिः / अभ्यन्तरः शरीरस्य कषायाणां चति / शरीरस्य पर्यन्तकाले विज्ञायाकिश्चित्करत्वं शरीरकं परित्यजति-उज्झति / यथोक्तम् ( भग० श० 2, उ० 1, सू० ९५)-"जे पि य इमं सरीरं इई कत" इत्यादि / क्रोधादयः कषायाः संसारपरिभ्रमणहेतवः तेषां व्युत्सगे:-परित्यागो मनो-वार-कायैः कृतकारिता-ऽनुमतिभिश्चेति // 26 // सम्यक्त्वादित्रयं मोक्षसाधनं, तत्रापि ध्यानं गरीयस्तनिरूपणायाह सूत्रम्-उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यामस्य लक्षणम् ध्यानम् // 9-27 // भा०-उत्तमसंहननं वज्रर्षभनाराचं वज्रनाराचं नाराचं अर्धनाराचं च। तयुक्तस्यैकाग्रचिन्तानिरोधश्च ध्यानम् // 27 // टी०-उत्तम-प्रकृष्टं संहननम्-अस्मां बन्धविशेषः / उत्तम संहननमस्येत्युत्तमसंहनने, तदुत्तमसंहननं चतुर्विधं वज्रर्षभनाराचं वज्रनाराचं नाराचं अर्धनाराचम् / वर्ज-कीलिका, ऋषमा-पट्टः, नाराचो-मर्कटबन्धः / प्रथमं त्रिर्तययुक्तम् / द्वितीयसंहनने पट्टो नास्ति / तृतीये पवर्षभौ न स्तः / ततो वज्रर्षभं अर्धवमर्षमै नाराचं चेत्यनेन चत्वारो भेदाः प्रतिपाद्याः उत्तमसंहननवाच्याः। उत्तमसंहननग्रहणं निरोधे कार्ये प्रतिविशिष्टसामर्थ्यप्रतिपादनार्थम् / तस्योतमसंहननस्य एकाग्रचिन्तानुरोधो ध्यानम् / अग्रम्-आलम्बनं एकं च तदग्रं चेत्येकाय, एकालम्बनमित्यर्थः। एकस्मिन्नालम्बने चिन्तानिरोधः / चलं चित्तमेव चिन्ता, तनिरोधस्तस्यैकत्रावस्थापनमन्यत्रोप्रचारो निरोधः / अतो निश्चलं स्थिरमध्यवसानमेकालम्बनं छद्मस्थविषयं ध्यानम्। केवलिनां पुनर्वाकाययोगनिरोध एव ध्यानम् , अभावान्मनसः / नद्यवाप्तकेवलस्य छाया यदपि च इदं शरीरमिष्टं कान्तम् / 2 'भमर्धवजनाराचं च' इति घ-पाठः / 3 'नाराचं कीलका' इति ग-पाठः / 4 'त्रिनयन' इति च-पाठः / ५'मन्यत्राथवा निरोधः' इति च-पाठः।