________________ 258 तत्वार्थाधिगमसूत्रम् [ अध्यायः 9 यन्तीति साधवो मोक्षम् , संयता इति मूलोत्तरगुणसम्पन्नाः द्वादशविधसम्भोगमाजः समनोज्ञानदर्शनचारित्राणि मनोज्ञानि सह मनोज्ञैः समनोज्ञाः तानि तानि वा सम्मोगकारणानि संविशेष्वपि विद्यन्ते // भा०—एषामन्नपानवम्नपात्रप्रतिश्रयपीठफलकसंस्तारादिभिर्धर्मसाधनैरुपग्रहः शुश्रूषा भेषजक्रिया कान्तारविषमदुर्गोपसर्गेषु अभ्युपपत्तिरित्येतदादि धैयावृत्त्यम् // 24 // टी.-एषामित्यादि / आचार्यादयः समनोज्ञान्ताः सम्बन्ध्यन्ते एषामित्यनेन / अनपानादयः प्रसिद्धाः तैरुपग्रहः-उपकारः। शुश्रूषा-विश्रामणादिका। भेषजक्रिया-मान्ये सति तदनुरूपभैषजसम्पादनम् / कान्तारम्-अरण्यम् / श्वापदबहुलत्वाद् विषमदुर्ग-गर्ताकूपकण्टकादिप्रचितम् / उपसर्गो-ज्वराऽ-तीसार-कास-श्वास-मरकादिः। अभ्युपपत्तिःअभ्युद्धरणं परिपालनं परिरक्षणमन्नपानादि(भिः) यत् तद् वैयावृत्त्यमिति // 24 // सम्प्रति स्वाध्यायोऽभिधीयतेस्वाध्यायस्य सूत्रम्-वाचना-प्रच्छना-ऽनुप्रेक्षा-ऽम्नायपञ्चविधत्वम् धर्मोपदेशाः // 9-25 // मा०-स्वाध्यायः पञ्चविधः। तद्यथा-वाचना, प्रच्छन, भनुप्रेक्षा, आ. मायः, धर्मोपदेश इति। तत्र वाचनं शिष्याध्यापनम् / प्रच्छन धर्मोपदेशस्य ग्रन्थार्थयोः। अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः। आ. पर्यायाः प्रायो घोषविशुद्धं परिवर्तनं गुणनं, रूपादानमित्यर्थः / अर्थोपदेशो व्याख्यानं अनुयोगवर्णनं धर्मोपदेश इत्यनर्थान्तरम् // 25 // टी-स्वाध्यायः पञ्चविध इत्यादि / तद्यथेत्यनेन भेदपञ्चकोपन्यासं सूचयति / तत्र वाचनेत्यादि / शिष्याणामध्यापनं वाचना कालिकस्योत्कालिकस्य वाऽऽलापकादानम् / ग्रन्थः सूत्रार्थः सूत्राभिधेयं तद्विषयं प्रच्छनम् / सन्देहे सति ग्रन्थार्थयोर्मनसाऽभ्यासोऽनुप्रेक्षा / न तु बहिर्वर्णोच्चारणमनुश्रावणीयम् / आम्नायोऽपि परिवर्तनं उदात्तादिपरिशुद्धमनुश्रावणीयमभ्यासविशेषः। गुणनं-सङ्ख्यानं पदाक्षरद्वारेण रूंपादानमेकरूपम् / एका परिपाटी द्वे रूपे त्रीणि रूपाणीत्यादि / धर्मोपदेशस्तु सूत्रार्थकथनं व्याख्यानमनुयोगवर्णन मनुयोगद्वारप्रक्रमेण श्रुतचरणधर्मोपदेश इत्यनर्थान्तरमिति // 25 // 1 'म्नाया' इति ग-पाठः / 2 ' ग्रन्थः सूत्राभि.' इति ग-ङ-पाठः / 3 'रुपदाम.' इति कमाल।