________________ सूत्र 24 ] . स्वोपज्ञभाष्य टीकालङ्कृतम् 257 इत्युपाध्यायः पृषोदरादित्वात् / सङ्ग्रहादीन् वाऽस्योपाध्येतीति संग्रहोपग्रहानुग्रहान्-वाऽस्य सम्बन्धिनस्तत्समीपभवांस्तत्कृतानुपाध्येति स्मरतीति उपाध्यायः द्विसङ्ग्रहो निर्ग्रन्थ इति / सगृह्यतेऽनेनेति सङ्ग्रहः / द्वाभ्यां सगृह्यते इत्यर्थः॥ का पुनरियं प्रवर्तनीत्याह भा०-प्रवर्तनी दिगाचार्येण व्याख्याता। हिताय प्रवर्तते प्रवर्तयति चेति प्रवर्तनी॥ टी-प्रवर्तनी दिगाचार्येण व्याख्यातेति / दिगाचार्यो दिशामनुजानाति / सचित्ताचित्तमिश्रप्रदायीत्यर्थः। तेन व्याख्याता तत्सदृशी द्रष्टव्या श्रुतसकलनिशीथाध्ययनासमुचितकल्पव्यवहारस्तत्र ग्राहिणी संविना प्राप्तदिगनुज्ञा चात्महिताय प्रवर्तते निःश्रेयसायैव घटते / अन्याश्च प्रवर्तयति साध्वीः स्मारणावधारणवारणादिप्रयोगेणेति प्रवर्तनी // भा०-विकृष्टोग्रतपोयुक्तस्तपस्वी / अंचिरप्रव्रजितः शिक्षयितव्यः शिक्षा, शिक्षामहतीति शैक्षो वा। ग्लानः प्रतीतः / गणः स्थविरसन्ततिसंस्थितिः / कुलं एकाचार्यसन्ततिसंस्थितिः। सङ्घश्चतुर्विधः श्रमणादिः। साधवः-संयताः / सम्भोगयुक्ताः समनोज्ञाः // टी-विकृष्टेत्यादि / विकृष्ट-दशमादि किञ्चिन्यूनषण्मासान्तं उग्रं-भावविशुद्धमनिश्रितमल्पसत्त्वस्य वा भयानकमुग्रं तपस्तेन युक्तस्तपस्वीति / अचिरप्रव्रजित इत्यादि / आद्यपश्चिमतीर्थयोर्मध्यमतीर्थेषु च कतिचिदहानि प्रतिपन्नस्य सामायिकस्य गतानि यस्य सोऽ. चिरप्रव्रजितः। अनारोपितविविक्तव्रतो वा ग्रहणासेवनशिक्षामुभयीं शिक्षयितव्यः शिक्षः। शिक्षामहतीति / वा शिक्षाशीलो वा शैक्षः / छत्रादित्वाण्णप्रत्ययः / ग्लानो मन्दोऽपटुाध्यभिभूतः / प्रतीतः-सुज्ञात एवेत्यर्थः / कुलानि स्थानीयादीनि / कुलं-समुदायः / गणः-स्थविरसन्ततिसंस्थितिः। स्थविरग्रहणेन श्रुतस्थविरपरिग्रहः, न वयसा पर्यायेण वा, तेषां सन्ततिः-परम्परा तस्याः संस्थानं-वर्तनं अद्यापि भवनं संस्थितिः कुलमाचार्य र सन्ततिसंस्थितिः एकाचार्यप्रणेयसाधुसमूहो गच्छः / बहूनां गच्छानां गच्छकुलवारथः एकजातीयानां समूहः कुलम् / तत्र ये आचार्यगुणोपेतास्तत्सन्ततिसंस्थितिः कुलं तेषां प्राधान्यम् / सङ्घश्चतुर्विधः-साधु-साध्वी-श्रावक-श्राविकाः। तत्र ये व्यवस्थिताः ज्ञान-दर्शन-चरणगुणास्ते परमार्थतः सङ्घः श्रमणादिरिति / 'पुरुषोत्तरो धर्म:' इति ज्ञापनार्थमुक्तम् / साधवः संयता इति / ज्ञानादिलक्षणाभिः पौरुषेयीभिः शक्तिभिः साध १'अविरते प्रवजित' इति घ-पाठः। 2 'आचार्य' इति घ-पाठः। 3 'गुणो यस्तत्' इति उ-पाठ। 4 "धम्मो पुरिसप्पभवो पुरिसवरदेसिओ पुरिसजिट्ठो। लोए वि पर पुरिसो किं पुण लोगुत्तमे धम्मे?॥" इत्युलेख उपदेशमालायां (गा. 16) / 5 'लक्ष्याभिः' इति ग-पाठः।