________________ 256 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 9 सम्प्रति वैयावृत्त्यमुच्यतेवैयावृत्त्यस्य सूत्रम्-आचार्यो-पाध्याय-तपस्वि-शैक्षक-ग्लान-गणदशविधता कुल-सङ्घ-साधु-समनोज्ञानाम् // 9-24 // टी-आचार्यादीनां समनोज्ञान्तानां कृतद्वन्द्वानां षष्ठीबहुवचनेन निर्देशः॥ भा०-वैयावृत्त्यं दशविधम् / तद्यथा-आचार्यवैयावृत्त्यं, उपाध्यायवैयावृत्त्यं, तपस्विवैयावृत्त्यं, शिक्षकवैयावृत्त्यं, ग्लानवैयावृत्त्यं, गणवैयावृत्त्यं, कुलवै. यावृत्त्यं, सङ्घवैयावृत्त्यं, साधुवैयावृत्त्यं, समनोज्ञवैयावृत्त्यं, इति व्यावृत्तभावो वैयावृत्त्यमिति व्यावृत्तकर्म वो॥ टी०-वैयावृत्त्यं दशविधमित्यादि / आचार्यादिभेदाद दशधा / तान् दश प्रकारान् नामग्राहमाख्याति-आचार्यवैयावृत्त्यमित्यादिना / वैयावृत्त्यशब्दव्युत्पादनायाह-व्यावतेत्यादि / व्यावृत्तो-व्यापारप्रवृत्तः, प्रवचनचोदितक्रियाविशेषानुष्ठानपरः, तस्य यो भाव:तथाभवनं तथापरिणामस्तद्वैयावृत्त्यम् / व्यावृत्तकर्म वेति / तथाभूतस्य यत् कर्म क्रियते तद् वैयावृत्त्यम् / पूर्वत्र क्रियाक्रियावतोः प्राधान्यमुत्तरत्र क्रियाया इति / तच्च वैयावृत्त्वं यथासम्भव क्षेत्रवसतिप्रत्यवेक्षणभक्तपानवस्त्रपात्रभेषजशरीरशुश्रूषणतदादेशगमनविद्यामन्त्रप्रयोगसाध्यादिः। आचार्यााद्देशेनाचार्यादीनां यत् कर्तव्यं तत्र व्यग्रता // भा०-तत्राचार्यः पूर्वोक्तः (अ० 9, सू० 6 ) पश्चविधः / आचारगोचरउपाध्यायशवस्य विनयं स्वाध्यायं वाऽऽचार्योदनु तस्मादुपाधीयत इत्युपाध्यायः, अर्थः सङ्ग्रहोपग्रहानुग्रहार्थं चोपाधीयते सङ्ग्रहादीन् वाऽस्योपाध्येतीत्युपाध्यायः / विसङ्ग्रहो निर्ग्रन्थः आचार्यो-पाध्यायसंग्रहः / त्रिसमहा निर्ग्रन्था आचार्यो-पाध्याय-प्रवर्तिनीसङ्ग्रहाः॥ टी०-आचार्यः पूर्वोक्तः पश्चविध इत्यादि / आचरत्याचरयति वेत्याचार्यः / 'कृत्यल्युटो बहुलं' (पा० अ०३, पा० 3, सू०११३) वचनात् / पूर्वोक्त इति ('उत्तमः)क्षमामादवा दिसूत्रे (पृ० 189) पञ्चप्रकारः-प्रव्राजकः 1 दिगाचार्यः 2 श्रुतोद्देष्टा 3 श्रुतसमुद्देष्टा 4 आम्नायवाचक ५श्चेति / आचारोज्ञानादिभेदः पञ्चधा / तस्य गोचरो-विषयो यथास्वं तद्विषयो विनयस्तमाचारगोचरविनयं स्वाध्यायं पञ्चप्रकारं वक्ष्यमाणं आचार्याल्लब्धानुज्ञाः साधवोऽनुपश्चात् तस्मादुपाधीयत इत्युपाध्यायः अपादानसाधनो घञ् / सङ्ग्रहोपग्रहानुग्रहार्थ चेति / वस्त्रपात्रप्रदानात् सङ्ग्रहः / अन्नपानभेषजप्रदानाद् उपग्रहः / एतदर्थ चोपाधीयते-सेव्यत १'च' इति घ-पाठः। 2 'त्तरक्रियाया' इति ङ-पाठः /