________________ 255 सूत्रं 23 ] . स्वोपज्ञभाष्य टीकालङ्कृतम् विधो मतिज्ञानादिः। आदिग्रहणात् श्रुता-ऽवधि-मनःपर्याय-केवलज्ञानपशानविनयस्य रिग्रहः / अस्मिन् सति ज्ञानादिपश्चके भक्तिर्बहुमानो ज्ञानस्वरूप - श्रद्धानं तद्विषयं श्रद्धानं च ज्ञानविनयः / श्रुते च विशेषः-"काले विणए बहुमाणे उवहाणे” इत्यादि // दर्शनविनयस्य भा०-दर्शनविनयस्त्वेकविध एव सम्यग्दर्शनविनयः / एकविधत्वम् टी०-दर्शनविनयस्त्वेकविध एव / “तत्वार्थश्रद्धानं सम्यग्दर्शनम्" (अ०१,सू०२) इत्येकलक्षणत्वादेकविध एव सम्यग्दर्शनविनयः / तथाऽर्हत्प्रणीतस्य च धर्मस्याचार्योंपाध्याय-स्थविर कुल-गण-सङ्घ-साधु-संभोगा(मनोज्ञा १)नां चानासादनाप्रशम-संवेग-निर्वेदानुकम्पाऽऽस्तिक्यानि च सम्यग्दर्शनविनय इति // भा०-चारित्रविनयः पञ्चविधः। सामायिकविनयादिः / औपचारिकविनयोऽनेकविधः____टी.-सामायिकादयः प्रागुक्तलक्षणाः सामायिकादिस्वरूपश्रद्धानपूर्वक चानुष्ठानविधिना च प्ररूपणमित्येष चारित्रविनयः। औपचारिकेत्यादि / उपचरणं उपचारः-श्रद्धानपूर्वकः क्रियाविशेषलक्षणो व्यवहारः, स प्रयोजनमस्येत्यौपचारिकः / स चानेकप्रकारः / तस्य विषयनिर्देशार्थमाह भा०–सम्यग्दर्शनज्ञानचारित्रादिगुणाधिकेषु अभ्युत्थानासनप्रदानवन्दनानुगमनादिः / विनीयते तेन तस्मिन् वा विनयः // 23 // ___टी०-सम्यग्दर्शनेत्यादि / सम्यक्त्वज्ञानचरणानि गुणास्तैरभ्यधिका ये मुनयः / आदिग्रहणाद् दशविधसामाचारीसम्पत्परिग्रहः तेषु / अभ्युत्थानासनप्रदानेत्यादि। अमिमुखमागच्छति गुणाधिके उत्थानमासनादभ्युत्थानं अदृष्टपूर्वे च साधुवेषभाजि कार्यमभ्युत्थानम् तदनन्तरमासनप्रदानं ततो वन्दनप्रतिपत्तिः / गच्छतः कतिचित् पदान्यनुगमनमनुव्रजनम् / आदिग्रहणान्मुकुलितकरकमलद्वयस्य ललाटदेशे न्यासोऽञ्जलिप्रग्रहः, वस्त्रादिपूजासत्कारः। सद्भूतगुणोत्कीर्तनं सन्मानः। विनयशब्दनिर्भेदप्रदर्शनायाह-विनीयते-क्षिप्यतेऽनेनाष्टप्रकारं कर्मेति विनयः। पचाद्यचि करणसाधनम् / विनीयते चास्मिन् सति ज्ञानावरणादिरजोराशिरिति विनयः। अधिकरणसाधने च // 23 // 1 सम्पूर्णा गाथा तच्छाया चैवम् " काले विणए बहुमाणे उपहाणे तह अनिन्दवणे / बंजण अत्थ तदुभए अट्ठविहो नाणमायारो॥" [ काले विनये बहमाने उपधाने तथा अनिवने / व्यञ्जनेऽर्थे तदुभये अष्टविधो ज्ञाने आचारः // ]