________________ 254 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 सम्प्रति प्रायश्चित्तमिति शब्दं व्युत्पादयतिभां०-'चिती सज्ञानविशुद्धयोः' धातुः / तस्य चित्तमिति भवति ____ निष्ठान्तमौणादिकं च // एवमेभिरालोचनादिभिः कृच्छ्रेस्तपोप्रायश्चित्तशब्दस्य विशेषैनिताप्रमादः तं व्यतिक्रमं प्रायश्चेतयति, चेतयंश्च न व्युत्पादनम् पुनराचरतीति / अतःप्रायश्चित्तमपराधो वा प्रायस्तेन विशुध्यत इति / अतश्च प्रायश्चित्तमिति // 22 // टी-चिती सज्ञानविशुद्धयोर्धातुरित्यादि / भीमसेनात् परतोऽन्यैर्वैयाकरणैरर्थद्वये पठिनो धातुः सञ्ज्ञाने विशुद्धौ च / इह विशुद्धयर्थस्य सह सज्ञानेन ग्रहणम् / अथवाऽनेकार्था धातव' इति सज्ञाने पठितो विशुद्धावपि वर्तते / भाष्यकृता चोपयुज्यमानमेवार्थमभिसन्धाय विशुद्धिरपि पठिता तस्य चित्तमिति रूपं भवति निष्ठान्तमौणादिक च चेततीति चित्तं विशुद्धयतीत्यर्थः / भावविशुद्धिमुपजायमानां सञ्जानीते चेततिप्रणिदधान इति / 'अजृसिभ्यः क्तः' (उणादिसूत्रे 377) क्तस्य च निष्ठासज्ञा / औणादिकं चैतच्छब्दरूपं चित्तमिति नान्यलक्षणमन्वेष्यम् 'उणादयो बहुलं' (पा० अ० 3, पा० 3, मू० 1) इति चितेरपि क्तः कर्तरि / केन पुनः प्रकारेण विशुद्धिरित्याहएवमेभिरित्यादि / उक्तलक्षणैरालोचनादिभिः पारश्चिकावसानः कृच्छः-दुष्करैस्तपोविशेषैर्जनिताप्रमादः कृताप्रमादः, अप्रमत्त इत्यर्थः / तं च मूलोत्तरविषयं व्यतिक्रममतिचारमुपयुक्तः प्रायो-बाहुल्येन चेतयति / प्रायोग्रहणमत्यन्तसूक्ष्मातिचारव्युदासार्थम् / चेतयंश्च-सञ्जानानो न पुनराचरति-आसेवते तादृशमपराधमित्यतः प्रायश्चित्तमुच्यते / प्रायःशब्देन वाऽपराधोऽभिधीयते / तेनालोचनादिना सूत्रविहितेन सोऽपराधो विशुद्धयत्यपीति / अतश्च-अस्माच्च हेतोः प्रायश्चित्तमिति // 22 // उक्तं प्रायश्चित्तम् / अधुना विनयोऽभिधीयते / तत्प्रतिपादनायाहनयस्य चातु- सूत्रम्-ज्ञानदर्शनचारित्रोपचाराः // 9-23 // भा०-विनयश्चतुर्भेदः / तद्यथा-ज्ञानविनया, दर्शनविनयः, चारित्रविनयः, उपचारविनय इति / तत्र ज्ञानविनयः पञ्चविधो मतिज्ञानादिः / टी०-ज्ञानादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः / एतद्विवरणायाह-विनयश्वतुर्भेद इति। विनयनिर्वचनमुपरि व्याख्यास्यते ताश्चतुर्धा भेदानामग्रोहमाचष्टे / तद्यथाशब्दस्तदुपन्यासार्थः / ज्ञानविनय इत्यादि / तत्र-तेषु चतुर्यु भेदेषु ज्ञानविनयस्तावत् पञ्च १'चिती सज्ञाने' इति पाणिनीये (धा० 39) / २'महणमा' इति ङ-पाठः /