________________ सूत्र 22] . स्वोपज्ञभाष्यटीकालङ्कृतम् 253 टी-परिहारो मासिकादिरिति / इदं मूलप्रायश्चित्तोपलक्षणम् / परिहियते अस्मिन् सति वन्दनालापानपानप्रदानादिक्रियया साधुभिरिति परिहारः। स च मासादिकः षण्मासान्तः / तस्य चान्ते कचिन्मूलं पुनव्रतारोपणं तद्विषयः सङ्कल्पात् कृतः प्राणातिपातो ____ दचितुर्थासेवनमुत्कृष्टं मृषावादादि वा सेवमानस्येत्येवमादिः / अनवअनवस्थाप्यपार . स्थाप्यपारश्चिकप्रतिपादनार्थमाह-उपस्थापनं पुनर्दीक्षणमित्यादि / विकयोरन्तर्भावः - अनवस्थाप्यपारश्चिकप्रायश्चित्ते लिङ्गक्षेत्रकालतपःसाधादे कस्थीकृत्योक्ते सत्र यथोक्तं तपो यौवन्न कृतं तावन्न व्रतेषु लिङ्गे वा स्थाप्यते इत्यनवस्थाप्य तेनैव तपसाऽतिचारपारमश्चतीति पारश्चिकः / पृषोदरादिपाठाच्च संस्कारः शब्दस्य / तयोः पर्यन्ते तेषुपस्थापन-व्यवस्थानं पुनर्दीक्षणं-पुनः प्रव्रज्याप्रतिपत्तिः पुनश्चरणं-चारित्रं पुनव्रतारोपणमित्यनर्थान्तरम् / तत्रानवस्थाप्यविषयः साधर्मिकान्यधार्मिकास्तेयहस्तताडनादिः दुष्टमूढान्योन्यकरणादिः पारश्चिकस्येति // भा०-तदेतन्नवविधं प्रायश्चित्तं देशं कालं शक्तिं संहननं संयमविराधनां च कायेन्द्रियजातिगुणोत्कर्षकृतां च प्राप्य विशुध्यर्थ यथाऽहं दीयते चाचर्यते च // टी-तदेतन्नवविधं प्रायश्चित्तमित्यादि / तदेतदित्यालोचनादेः परामर्शः / ___ नवविधमिति स्वतसूत्रसन्निवेशमाश्रित्योक्तम् / आर्षे तु दशधा विंशप्रायश्चित्तप्रकारा कारा तिधा वाऽभिहितं प्रायश्चित्तं वक्ष्यमाणनिर्वचनम् / देशो निर्गुणः किले णां सङ्ख्या क्षेत्रम् / कालः स्निग्धो रूक्षः साधारणश्च / शक्तिः प्रायश्चित्तकारिणो वीय-सामर्थ्यम् / संहननं वज्रर्षभनाराचादि / संयमः सप्तदशभेदः समस्तो वा मूलगुणोत्तरगुणकलापः तस्य विराधना-खण्डनमतिचरणम् / चशब्दः समुच्चयार्थः / तां विराधनां विशिनष्टि-कायेन्द्रियेत्यादि / कायाः पृथिव्यादयः षट्सङ्ख्याः। तत्रावनि-जल-ज्वलन-पवन प्रत्येकवनस्पतिषु सङ्घन-परितापना-ऽवद्रावणविषयमन्यादृशं प्रायश्चित्तमन्यादृक् साधारणवनस्पतावन्यादृशं च द्वि-त्रि-चतुः-पञ्चेन्द्रियकायेषु इत्थमुपयुज्य यथावद् देयम् / एवं कालादयोऽपि पर्यालोचनीयास्तदनुरूपं च देयमिति / तथा एक-द्वि-त्रिचतुः-पञ्चेन्द्रियप्राणिप्रत्युपेक्षणेन च विभजनीयं प्रायश्चित्तम् / अथवा एक-द्वि-त्रि-चतु:पञ्चेन्द्रियजातिद्वारेण गुणा राग-द्वेष-मोहाः तेषामुत्कों -ऽपकर्ष-मध्यावस्थाः समीक्ष्य मृगराज-गवादिव्यापादकवत् तत्कृतां च विराधनां प्राप्य अतिचारविशोधनार्थं यथाऽहमपराधानुरूपं दीयते चाचर्यते च प्रायश्चित्त मिति // 1 'मूलं प्रता' इति उ-पाठः / 2 यावत्कृतं ' इति हु-पाठः। 3 'लिङ्गे वा स्थाप्यः' इति उ-पाठः / ४'कृत-स्तत्र' इति हु-पाठः। ५'खिलक्षेत्रं ' इति ङ-च-पाठः /