________________ 252 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 9 कायोत्सर्गः कार्यः / आदिग्रहणाद् गमनागमनविहारश्रुतसावधस्वप्नदर्शननौसन्तरणोच्चारप्रस्रवणावरणपरिग्रहः / अशङ्कनीयविवेकेषु चेति / धनसंसक्तसक्तुदधितक्रादिषु न प्राणिनो विवेक्तुं शक्यन्त इत्यशङ्कनीयविवेकेषु च सक्तप्रभृतिषु प्रतिष्ठापितेषु कायोत्सर्गत एव तपः प्रायश्चित्तं भवतीति // तपःप्रायश्चित्तविवक्षया त्वाहभा०-तपो बाह्यमनशनादि प्रकीर्ण चानेकविधं चन्द्रप्रतिमादि / टी---तपो बाघमनशनादि / प्रायश्चित्तमित्यभ्यन्तरं तपः, अनशनादि तु बाह्यम् / बाह्याभ्यन्तरता च केनचिदंशेनेत्यविरोधः / तत्रानश नग्रहणाचतुर्थभक्तपरिग्रहः, श्रुतानुसारात् पञ्चमव्यवहारानुसाराच्च / तच मध्यमग्रहणं मध्यमग्रहणाच्चाद्यभेदपरिग्रहोऽपि / तत्राद्याः पञ्चक दशक-विंशति-पञ्चविंशतिभेदा लघवो गुरवश्च / मासोऽपि च लघुगुरुः / चत्वारश्च मासा लघवो गुरवश्च। षट् च मासा लघुगुरवः मध्यं च / भिन्नमासो लघुगुरुभेदः। सर्वमेतत् तपः प्रायश्चित्तं ज्ञानदर्शनचारित्रापराधानुरूपमागमेऽतिचारविशुद्धयर्थम् / सम्प्रति पञ्चमव्यवहारप्रमाणेन यतयो भूयसा विशुद्धिमाचरन्ति / तच्च निर्विकृत्याद्यष्टमभक्तान्तम् / तच्चानेकातिचारविषयम् / यथा उद्देशकाध्ययनश्रृंतस्कन्धाङ्गेषु प्रमादिनः कालविनेयातिक्रमादिषु क्रमेण निर्विकृत्याद्याचाम्लान्तमनागाढयोगे, आगाढे तु पुरस्तादर्धचतुर्थभक्तान्तम् / एवमादि प्रकीर्णकं चानेकविधं चन्द्रप्रतिमादीत्युक्तलक्षणं बांधे तपसि प्राक प्रपश्चनेति // छेदप्रायश्चित्ताभिधित्सयोवाच __भा०-छेदोऽपवर्तनमपहार इत्यनर्थान्तरम् / स प्रव्रज्यादिवसछेदस्य पर्यायाः पक्ष-मास-संवत्सराणामन्यतमेषां भवति // टी-छेदोऽपवर्तनमपहार इत्यभिन्नार्थाः पर्यायाः / स च छेदः पर्यायस्य महाव्रतारोपणकालादारभ्य गण्यते / एतदेवाह-प्रव्रज्येत्यादि / प्रव्रज्यादिवस-पक्ष-माससंवत्सराणामन्यतमेषां भवति / प्रवज्यादिवसो यत्र महावतारोपणं कृतं तदादिः पर्यायः / तत्र पश्चकादिच्छेदपर्यायस्य यथा यस्य तावद् दश वर्षाण्यारोपितमहाव्रतस्यापराधानुरूपः कदाचित् पञ्चकच्छेदः कदाचिच्च दशक इत्यादि यावत् षण्मासपरिमाणच्छेदो लघुगुरुवा, एवं विधेन छेदेन छिद्यमानः प्रव्रज्यादिवसमप्यपहरतीति / अस्य च विषयस्तपसा गर्वितः तपसोऽसमर्थस्तपश्चाश्रद्दधानः तपसा च यो न दाम्यत्यतिपरिणामकश्वेत्यादि / सम्प्रति मूलप्रायश्चित्तमभिधीयते-- . भा.परिहारो मासिकादिः / उपस्थानं पुनर्दीक्षणं पुनउपस्थापनस्य पर्याया' श्चरणं पुनर्वतारोपणमित्यनान्तरम् / / १'श्रुताङ्गेषु' इति ङ-पाठः। 2 'विनयता' इति उ-पाठः। 3 दिवसादिपक्ष.' इति ग-पाठः /