________________ 251 सूत्रं 22] . स्वोपज्ञभाष्य-टीकालङ्कृतम् युक्तः प्रत्यवमर्शः-पश्चात्तापः उत्सूत्रमिदं मया दुष्टं कृतमिति स्वच्छन्दतो न सूत्रानुसारेणेति समुपजातविप्रतिसारः प्रतीपमपसर्पति प्रत्याख्याति-न पुनरेवं करिष्यामीति प्रत्याख्यानं प्रतिक्रमणं, कायोत्सर्गकरणं चेति / कायस्य-शरीरस्य उत्सर्गः-उज्झने भावतः कायोत्सर्गः। यस्मात् सुविशुद्धभावस्यापि ममायं कायो बलानिपतितः कायेष्विति न मे भावदोष इति / तदेतदेवंविधं प्रतिक्रमणं प्रायश्चित्तमहिंसकस्य गुप्तिसमितिप्रमादिनो गुरूनासादयतो विनयहानिमाचरत इच्छाकारादिसामाचारीमप्रयुञ्जानस्य लघुकमृषादत्तमूर्छावतो विधिशून्यकासजृम्भितक्षुतवातमोक्षणकन्दर्पहासविकथादिमतो विहितं तदुभयप्रायश्चित्तनिरूपणायाह-- भा०--एतदुभयमालोचनप्रतिक्रमणे / विवेको विवेचन विशोविवेकस्य य धनं प्रत्युपेक्षणमित्यनर्थान्तरम् / स एष संसक्तानपानोपधिपर्यायाः शय्यादिषु भवति // टी०–एतदुभयमालोचनप्रतिक्रमणे इति / आलोचनं व्याख्यातं प्रतिक्रमणं च / एतदेवोभयं प्रायश्चित्तं प्रागालोचनं पश्चाद् गुरुसन्दिष्टस्य प्रतिक्रमणम् / एतचोभयं प्रायश्चित्तं सम्भ्रमभयातुरापत्सहसाऽनाभोगानात्मवशगतस्य दुष्टचिन्तितभाषणचेष्टावतश्च विहितम् / सम्प्रति विवेकप्रायश्चित्तावसरः-विवेको विवेचनमित्यादि / विवेकः-त्यागपरिणामः / विवेचनं-भावविशुद्धिः। विशोधनं-निरवयवता पुनः प्रत्युपेक्षणं प्रस्फोटनमीक्षणमेव वा प्रयत्नेन स्वल्पोऽप्यवयवो नास्तीति / विशुद्धिरित्येते पर्यायशब्दा अभिन्नमर्थमभिदधति / विवेकपायश्चित्तस्य विषयं दर्शयति-स एष विवेकः संसक्तानपानोपकरणादिषु भवतीति / उपयुक्तेन गीतार्थेन गृहीतं प्राक् पश्चादवगतमशुद्धं विवेकार्हम् / अन्नपानग्रहणात् पिण्डपरिग्रहः / उपधिरौधिकौपग्रहिकलक्षणः। शय्या प्रतिश्रयः / आदिग्रहणाद् डगलकभस्ममल्ल(क)भेषजादिपरिग्रह इत्येवं विवेक एव प्रायश्चित्तमिति // सम्प्रति व्युत्सर्गप्रायश्चित्तमुच्यते ____ भा०-व्युत्सर्गः प्रतिष्ठापनमित्यनर्थान्तरम् / एषोऽप्यव्युत्सर्गस्य पर्यायः नेषणीयान्नोपकरणादिषु अशङ्कनीयविवेकेषु च भवति // टी०-व्युत्सर्ग इत्यादि / विशिष्ट उत्सर्गो व्युत्सर्गः-प्रणिधानपूर्वको निरोधः। कायवाग्व्यापारस्य, पर्यायान्तरेण व्याचष्टे-प्रतिष्ठापनमित्यनर्थान्तरम् / प्रतिष्ठापनशब्दः परित्यागार्थः। कायोत्सर्गप्रायश्चित्तस्य विषयमादर्शयति-एषोऽपि कायोत्सर्गः प्रायश्चित्तं भवति / क? अनेषणीयादिषु-त्यक्तेषु / तत्रानेषणीयमुद्गमाद्यविशुद्धमन्नपानमुपकरणं वा प्रतिष्ठाप्य 1 'कायव्यापारस्य' इति क-पाठः /