________________ 250 तत्त्वार्थाधिगममुत्रम् [ अध्यायः 9 तद्यथेत्यनेन सूत्रं सम्बध्नाति / अभ्यन्तरतपोभेदस्याद्यस्य निर्दिष्टविकल्पसङ्ख्यस्य तद्भेदानामाख्याविशेषप्रक्लप्त्यर्थमिदमुच्यतेऽत्र / सूत्रम्-आलोचन-प्रतिक्रमण-तदुभय-विवेक-व्युत्सर्गप्रायश्चित्तस्य नव भेदाः तप-श्छेद-परिहारो-पंस्थापनानि // 9-22 // भा०-प्रायश्चित्तं नवभेदम् / तद्यथा-आलोचनं, प्रतिक्रमण, आलोचनप्रतिक्रमणे, विवेकः, व्युत्सगेः, तपः, छेदः, परिहारः, उपस्थापनमिति // टी-आलोचनादय उपस्थापनान्ताः कृतद्वन्द्वा नपुंसकलिङ्गेन निर्दिष्टाः / प्रायश्चित्तं नवभेदमित्यादि विवरणम् / औपसङ्ख्यानिकः सुट् / तद्यथेत्यादिना नवापि भेदान् विवेकेन दर्शयति / तदुभयमित्येतद् व्याचष्टे-आलोचन-प्रतिक्रमणे इति / तदित्यनेनालोचनं प्रतिक्रमणं च सङ्ग्रहीतम् / एष च तृतीयो भेदः / आलोचनादीन भाष्यकार एव क्रमेण विवृणोति / अनया मयोदया दोपरहितः कायोकायोव्युत्पन्नबालजल्पितवत् सकलमतीचारमाचष्टे-प्रत्यक्षीकरोति प्रकाशयत्यालोचनास्य गुरवे / तत्र कश्चिदतीचारः प्रकाशमात्रेणैवापोह्यते, यथाश्रुतोपदिष्टव्यापारानुष्ठायी मोक्षाय प्रयतमानोऽवश्यकरणीयेषु प्रत्युपेक्षणप्रमार्जनवैयावृत्त्यस्वाध्यायतपश्चरणाहाराधुच्चारविहारावनिचैत्ययतिवन्दनादिषु कार्येषु अत्यन्तोपयुक्तो 'निःसपत्नः प्रवर्तते व्यस्तस्थूलातिचारः सूक्ष्मास्रवप्रमादक्रियाविशुद्धयर्थमालोचनमात्रादेव विशुध्यति / तस्यालोचनस्यैकार्थाः पर्यायाः नस्य भा०-आलोचनं "विवरणं प्रकाशनमाख्यानं प्रादुष्करणभालोचनस्य पर्यायाः मित्यनान्तरम् / / टी.-आलोचनं मर्यादनं मर्यादया गुरोनिवेदनम् / पिण्डिताख्यानस्य विवरण द्रव्यादिभेदेन / प्रकाशनं गुरोश्चेतसि सम्यगतीचारसमारोपणम् / आख्यानं प्रथमं मृदुना चेतसा / प्रादुष्करणं निन्दा-गर्दाद्वारेण / इति-एवमनन्तरम्-एकार्थत्वं परमार्थत इति // प्रतिक्रमणमित्यादि स्वयमेव विवृणोति भाष्यकार: भा०-प्रतिक्रमणं मिथ्यादुष्कृतसंप्रयुक्तं प्रत्यवमर्शः प्रत्याख्यानं कायोसर्गकरणं च // टी-अतीचाराभिमुख्यपरिहारेण प्रतीपं क्रमणम्-अपसरणं प्रतिक्रमणम् / एतदाह-मिथ्या-अलीकमुत्सूत्रमुन्मार्गः / दुष्ट कृतं दुष्कृतं चरणविराधनमित्यर्थः / तेन सम्प्र 1 'प्रकृत्यर्थ ' इति ङ-च-पाठः। 2 'स्थानानि ' इति च-पाठः। 3 'स्थानमिति' इति ग-पाठः / 'मिष्पन्नः' इति च-पाठः / 5 'प्रकटनं' इति घ-पाठः /