________________ लक्षणम् सूत्रे 20-21] स्त्रोपज्ञभाष्य-टीकालङ्कृतम् 249 सूत्रम्-प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्यायअभ्यन्तराणि षटू तपांसि ___ व्युत्सर्ग-ध्यानान्युत्तरम् // 9-20 // भा०-सूत्रक्रमप्रामाण्यादुत्तरमित्यभ्यन्तरमाह / प्रायश्चित्तं 1 विनयो 2 वैयावृत्त्यं 3 स्वाध्यायो 4 व्युत्सगों 5 ध्यानं 6 इत्येतत् षड्विषं अभ्यन्तरं तपः // 20 // अभ्यन्तरतपो- टी०-अन्तापारभूयस्त्वा-दन्यतीर्थविशेषतः / बाह्यद्रव्यानपेक्षत्वा-दान्तरं तप उच्यते ॥१॥-अनु० प्रायश्चित्तादीनां ध्यानान्तानां द्वन्द्वः। मृलोत्तरगुणेषु स्वल्पोऽप्यतीचारः चित्तं मलि ..नयतीति तत्प्रकाशनाय तच्छुद्धयैव प्रायश्चित्तं विहितं, पापच्छेदकाप्रायश्चित्तादीनां " रित्वात् प्रायश्चित्तमिति / पृषोदरादित्वाच्छब्दसंस्कारः / प्रायो बाहुव्युत्पत्तिः " ल्येन चित्तविशुद्धिहेतुत्वात् प्रायश्चित्तम् / विनीयते येनाष्टप्रकार कर्मापनीयते स विनयः / श्रुतोपदेशेन व्यावृत्तो-व्यग्रस्तद्भावो वैयावृत्त्यम् / सुष्टु-मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षयां वाऽऽध्यायः स्वाध्यायः / विविधस्यानपानवस्त्रपात्रादे संसक्तस्यातिरिक्तस्य च परित्याग उत्सर्गो व्युत्सगेः। वाकायचित्तानां आगमविधानेन निरोधो ध्यानम् / उत्तरमिति पूर्वसूत्रोपन्यस्तबाह्यतपोऽपेक्षया सूत्रानुपूर्वीप्रामाण्यादुत्तरमित्यभ्यन्तरमाह / एतदपि षट्प्रकारमभ्यन्तरं तप इति तदेतदभ्यन्तरं तपः // 20 // सूत्रम्-नव-चतुर्-दश-पञ्च-दिभेदं यथाक्रम अभ्यन्तरतपो.. भेदनिर्देशः प्राग् ध्यानात् // 9-21 // भा० तदभ्यन्तरं तपः नव-चतुर-दश-पश्च-विभेदं भवति यथाक्रमं प्रागू ध्यानात् / इत उत्तरं वक्ष्यामः // 21 // तद्यथा टी०-नवादीनां भेदशब्दोपसंहितानां भेदशब्देन बहुव्रीहिः, द्विपदवृत्तौ समासे समानाधिकरणे बहुलमुत्तरपदलोपविज्ञानमुष्टमुखन्यायेन / नव च चत्वारश्च दश च पश्च च द्वौ च भेदाच ते नवचतुर्दशपञ्चविभेदाः। एते भेदा यस्येत्येकस्य भेदशब्दस्य लोपः। यथाक्रममिति यथासङ्खयम् / प्राग ध्यानात प्रायश्चित्तादारभ्य यावद् व्युत्सर्ग इति / इतःअस्मात् सूत्रादुत्तरं यद् वक्ष्यामः प्रायश्चित्तादित्थंभेदमवसेयमिति // 21 // 1 'उत्सर्गः-परित्यागः' इति प्रतिभाति /