________________ 248 तत्त्वार्थाधिगमसूत्रम् [अध्यापः 9 लग्भोऽयम् / बन्धो हि नः प्रयोगवशात् / न च तस्य हन्यमानस्य तत्र हिंसाप्रयोगोऽस्ति / औदेशिकाबारम्भे चावश्यंभावी जीववधः शाक्यानाम् / यथोक्तम् "प्रतिसेवासंवासः, प्रतिश्रुतिश्चानुमोदना हीष्टाः। औदेशिकादिनिर्व-तने च नियमेन जीववधः॥१॥-आया भिक्षुनुद्दिश्य हते, दोषो न तु मांसभक्षणेऽभीष्टः। शाक्यानां सवोनु-द्दिश्यारब्धमदन भिक्षुः ॥२॥"-आर्या कथमदुष्टः ? यस्मात् सङ्घोऽपि हि न भिक्षुन्यतिरेकेणान्योऽस्ति / यच्च समुद्दिश्य कृतं तद् भिक्षुदेशेनैव कृतं, तदव्यतिरेकात् / मायासूनवीयश्चोदयति "कथमेषणीयमपि भि-क्षुरदन हिंसां न सोऽनुमन्येत / परितुष्यति यल्लब्ध्वा, ग्रहणं नास्त्यसति दोषे // १॥"-आर्या जैनेन्द्रास्त्वाहुः "इत्येष विप्रलापो, न स तुष्यति येन जीवघाताय / सुखमुत्सर्पति मेयं, धर्मोऽनेनेति तुष्यति तु ॥२॥-आर्या ननु देहेन समर्थे-नानेन सुखं तपोऽधितिष्ठामि। इति तुष्यतोऽस्ति न यते-र्मातापितृमैथुनानुमतिः ॥३॥"-आर्या अथ कदाचिदाशङ्कत "औदेशिकादिभोज्यपि, तथैव न तु तुष्यतीत्यपि न युक्तम् / आत्मार्थ हि हितानां, न यतिर्दयते स जीवानाम् ॥४॥-आर्या हत्वाऽऽत्मार्थ सत्त्वं, समक्षमुपहृतमुदीक्ष्य तन्मासम्।। न हि गृह्णाति दयालु-गुरुन् ननु निर्दयो भवति ॥५॥–आर्या परमुद्दिश्यारब्ध-मपि तद् गृह्णन् कथं न विकृपः स्यात् / इत्येष विप्रलाप-स्तद्धचारब्धं स्वभावेन ॥६॥-आर्या गृहिणा नद्यारम्भः, शक्यो वारयितुं सर्व एव जीवानाम् / स हि धर्मः संसरतां शक्यस्त्वौद्देशिकारम्भः ॥७॥"-आर्या निवारयितुं यच्चोक्तमाशयत्रयविशुद्धमदतो मांसं न दोष इति (पृ० 247, पं० 19) वयोक्तं रसपरित्यागस्तपसि सत्वमिति // 19 // प्रकृतमुच्यते / किञ्च प्रकृतं तपस्तत्र बाह्यमुक्तम् / अधुनाऽऽभ्यन्सरमध्यते / सवातिशयन कर्मनिर्दहनक्षमम् / आया .