________________ 247 सूत्र 19 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् अपि वा प्रमत्तमाह-हिंसकमहन्न वक्रजडकरणम् / सूत्रोदितेन मार्गे-ण विहारश्वाप्रमादाख्यः॥४॥-आर्या ज्ञानस्य हि सगुणो यत्, स्वाध्यायशुभाय कर्मणे यतते / नोऽसाध्य साधयितुं, प्रवर्तते ज्ञानवान् पुरुषः॥५॥-आर्या ज्ञानी कर्मक्षपणा-र्थमुत्थितो नो शठः प्रयतमानः। सूत्रोदितेन विधिना, न बन्धकः सत्त्वमरणेऽपि // 6 ॥-आर्या स्यानाम यदा बन्ध-श्छमस्थस्य प्रमाददोषेण / तस्य प्रायश्चित्तं, दशविधमातिष्ठति तदा सः॥७॥-आर्या उपपादिताच कायाः, सर्वे मोक्षश्च सर्वतन्त्रेष्टः। यदि चैवं नाहिंसा, स्यात् तस्मान्मोक्ष एव ननु // ८॥-आर्या युवते परामहिंसां, सर्वे धर्मप्रवादिनो लोके / तिष्ठति भिक्षावृत्ती, ज्ञानरतौ सा त्वनारम्भे // ९॥"-आर्या तस्मादसञ्चेतितोऽपि कर्मबन्धः समस्ति जीवव्याप्तेऽपि लोकेऽस्त्यहिंसका साधुरिति / यथोक्तमनुत्पादयन्तोऽपि दुःखं परस्य कामक्रोधादीनां निमित्तता प्रतिपद्यमानाः काययोगद्वारेणैव सायुज्यन्ते / यतः सर्वाङ्गोपाङ्गसुन्दरो मुनिर्योषितां कामामिमुद्दीपयति कस्यचिच सदर्शनात् प्रद्वेषः। यदि च बाह्यनिमित्तमात्राद् बन्धः, ततो मृगोऽपि वधहेतुरिति स्यात्, न तस्यापि वधनिमित्तत्वाद् बन्धः। तथा जैनैश्चोद्यते-नैमित्तिकं पापमनिच्छतो मायासूनवीयस्य मांसभक्षणमप्यदोषं स्यात् / एवं चोदित आह-यदि त्रिविधमाशयं नोत्पादयति / तद्यथामांसरसगृद्धाशयं तत्पर्येष्टेयाशयं वध्ये नैघृण्याशयं चेत्येतदप्यज्ञातपरसमयस्य फल्गु वचनम् / यतो यावदात्माधिष्ठितः कायस्तावदप्रमत्तस्य आगमानुसारेण यतमानस्य नैवास्त्येनसा योगः / यथोक्तम् "यो रक्तो द्विष्टो वा, मुढो वा यं प्रयोगमाचरति / तस्माद्धि तदनुरूपो, बन्धस्तस्याहेता प्रोक्तः॥१॥"-आर्या यदा त्वचेतनः कायोपविद्धः सत्त्वेन तदाऽत्युत्सृष्टस्त्रिविधस्त्रिविधेनेति न तजनितः कर्मबन्धोऽस्ति / एतेन काष्ठादीनां पुण्यपापप्रसङ्ग उक्तो वेदितव्यः। यथोक्तमार्षे-"यहि धर्मपुण्यपापक्रियायामिच्छतः क्रुद्धस्येव पुण्यार्थिनो निग्रन्थशिरोलुश्चने पापप्रसङ्गात्" इत्यादि सर्व प्रतिहतं बोद्धव्यम् / न च दृष्टान्तः सर्वैर्विकल्पैरुपनेयः, अनुमानाभावप्रसङ्गादिति। यथोक्तम्--" मृगस्यापि वधनिमित्तकर्मबन्धः" इति / तत्राप्युक्तमेव पूर्व इति चानुक्तोप 'कस्याधिष' इति ग-पाठः। 2 'पर्येष्याशयं' इति हु-पाठः / 3 'घेति तदपि ' इति -पा।