________________ सूत्र 19] स्वोपज्ञमाष्य-टीकालङ्कृतम् 295 पकं परिशटति जीवप्रदेशेभ्यः, न हि ततोऽन्यत् कर्मोपादानमस्ति, कथं मोक्षामावः / चार्य नियमः-पापस्य कर्मणः पापेनैव विपाकेन भवितव्यं कुशलस्य च कुशलेनैवेति, स्थित्यनुभावबन्धयोपियोसवचनात् / यथोक्तम्--- " मूलप्रकृत्यभिन्नाः, सङ्क्रमयति गुणत उत्तराः प्रकृतीः / न त्वात्माऽमूतत्वा-दध्यवसोनप्रयोगेण ॥१॥-आर्या शिथिलयति दृढं बन्धं, शिथिलं द्रढयति च कर्म ननु जीवः / उत्कृष्टाश्च जघन्या, स्थितिर्विपर्यासयति चापि ॥२॥-आयो तारीकरणं ताम्र-स्य शोषणस्तेमने मृदः क्रमशः / वृक्षपरिपाचनं वा, काले तेषूपदृष्टान्ताः // ३॥"-आर्या सङ्क्रमस्य तारीकरण, स्थितेः शोषणस्तेमने, वृक्षपरिपाचनमित्युदीरणाः। "अनुभावांश्च विपर्या-सयति तथैव प्रयोगतो जीवः / तीव्रत्वमन्दत्वावस्थासु प्रकृतिष्वभिन्नासु // 4 ॥-आर्या यद्वद् वा मन्दं सत्क्षारी-क्रियते हरिद्रया चूर्णम् / वातातपादिभिश्च, क्षारं मन्दीक्रियेत यथा ॥५॥"-आर्या इति / यदप्युक्तं (पृ० 242) असञ्चेतिता कृतबन्धतो मोक्षाभावः इति तदप्ययुक्तम् / यदि सचेतितमेव शुभमशुभं वा बध्यते नासञ्चेतितं, एवं तर्हि न कश्चिन्मिथ्याष्टिरस्ति। न हि साङ्खयः काणभुजो वो द्विजादिवा स्वं दर्शनं मिथ्येति सश्चेत्य प्रतिपद्यते / सर्वोऽपि हि स्वं दर्शनं निश्चितमेव सम्यनित्यभ्युपगच्छति, न मिथ्येति सञ्चेतयति / अथैवमाशङ्केथाःविपरीताभिनिवेशात् तस्य मिथ्यादर्शनम् / तदेवं सति रज्जुबुद्धया छिन्दतः सर्पमवश्यम्भाविनी हिंसाप्राप्तिः, विपरीताभिनिवेशात् संसारमोचकयाज्ञिकगलाकार्तप्रभृतीनां च निनवां भर्मोज्यमेवेति पापमिति वा सञ्चेतनान्न पापं स्यात् / न हि ते अपुण्यमेव सञ्चेतयन्ति / अथ यथा तथा वा प्राणवधे विहिते पापं भवति, ततः सिद्धव हिंसा नावश्यम् / यदि प्राणी च भवति प्राणिसंज्ञा च भवति वधकचित्तं वाऽस्योत्पद्यते वधितश्च भवति ततो हिंसेति / अथ ते हिंसामित्येवं सञ्चेतयन्ति संसारमोचकादयो भिक्षुरपि तर्हि सञ्चेतयितुं नियमेन जीववधो भवत्यारम्भ इति / यथोक्तम् " भूकाष्ठाग्न्यपगोमय-बनवायुवनस्पतीन् पशून् प्रेष्यान् / मत्वाऽऽरभमाणस्य, प्राणव्यपरोपणं नियतम् // १॥-आर्या १.निगमः' इति उ-पाठः। 2 ‘सानान्नयोगेन' इति ङ-पाठः। 3 'न तु'इति -पाठः। ४'वा द्विजो वा' इत्यधिको स-पाठः।