________________ 244 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 उभयोपशमौ युक्ती, सापेक्षौ कर्मणोः शुभाशुभयोः / स्याद् विफलेहा सर्व, निरपेक्षं कर्म कल्पयतः ॥२॥-आर्या तस्मादवश्यभावा, अप्यास्ते प्रयोगतः सिद्धाः। न विहे नौमिर्भवति, कदाचिदनुन्नं सलिलमन्यैः ॥३॥"-आर्या तस्मान्मुमुक्षोः श्राद्धस्य प्रवचनानुमारिप्रवृत्तौ स्ववीर्येण कर्मोदयमाविर्भावयतो न व्यर्थ आतापनादिक्रियाकलापः कर्मनिर्जरणफलः / / अथ न स्वतन्त्रमेव फलं ददाति कर्म, न सहि व्यर्थमातापनादि तपः पूर्वकृतं तद भवति कर्म / न च व्यर्थो यत्नः, पुरुषप्रयत्नेन विपच्यमानत्वात् / ततश्च नारकदृष्टान्तः साध्यशून्यः। नारकीयमपि कर्म [अन्य]जन्मान्तरोपात नरकभवापेक्षमुदयति / स्वपरिणामापेक्षं च न व्यर्थ, निर्जराफलत्वात् / एवं चातापनादिप्रयत्नस्यानीश्वरत्वमसिद्धं, कर्मापगमहेतुत्वात् / यच्चोक्तं (पृ० 242 ) 'न च तत्पूर्वकृतकर्मजं दुःखं प्रयत्नानुविधायित्वात्' इति, तदप्यपेशलम् / यद् यत् प्रयत्नानुविधायि तत् तत् पूर्वकृतकर्मजं न भवति,यथा नर्तकीचूभङ्गकर्मेति। खदिरशलाकाभीतः किल नश्यन्ननाकुलः सुगतः प्रयत्नवानपि पादे विद्धः शलाकया। तच्च पादवेधनकर्म प्रयत्नानुविधायि भवति पूर्वकृतकर्मजं चेत्यनेकान्तः / "इत एकनवते कल्पे, शत्तया में पुरुषो हतः।। तस्य कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः ! // 1 // " इति तत्सिद्धान्तः / नर्तकीभ्रूभङ्गोऽपि पूर्वकृतकर्म एव / भ्रूभङ्ग इति ध्रुवोविन्यासः-औदारिकशरीरावयवः / तचौदारिकं पूर्वकृतकर्मजं क्रियाक्रियावतोरभेदादिति साधनशून्यो दृष्टान्तः।न च कर्म क्रियैवाहतानाम् / कर्म हि पौद्गलिकमिष्टं तच्च पूर्वमिति / अथातापनाशुपक्रमजनितमेव तद् दुःखं, न पूर्वकृतकर्मजं, ततः कर्मक्षयाभाव इति यदुक्तं (पृ०२४२,६०१५) तदसम्बध्यकमानमेव / यस्मात् पूर्वकृतमेव कर्म द्रव्याद्यपेक्षमुदेति, न पुनरातापनादिक्रियया तदपूर्वमेवोत्पद्यत इत्यज्ञातजैनसिद्धान्तेन वैयावृत्त्यादि कल्पितं मूढेनेति / तचाशङ्कितमातापनादिप्रयत्नोऽपि पूर्वकर्मकृत एवेति, ततश्च पुरुषकाराभाव इत्येतदप्यज्ञानविजृम्भितम् / जीवकर्मणोरनादिसम्बन्धः / आत्मा च संसारी सकर्मकः कर्ता। क्रियत इति च कर्म, वीर्यान्तरायक्षयोपशमाच्च / वीर्य-अयनविशेषः आत्मनः करणजन्यः / करणानि च कर्तृव्यापारापेक्षाणि प्रयत्नमारभन्त इति / ईशि प्रक्रियायां कथं पुरुषकाराभावश्चोत्पद्यते / तथा अपरमुक्तमज्ञेन (पृ० २४२,पं० 21) यदि पापस्य कर्मणो यो विपाकः सोऽपि कर्म, ततो मोक्षाभावः, पापक्षयासम्भवात् / यस्मात् किल तदप्योपक्रमिकं कर्म तस्याप्यपरो विपाकस्तस्याप्यपर इति कुतो मोक्षः। अत्राप्यज्ञानमेवापराध्यति / कर्मपुद्गलानां विपाकोऽनुभावो रस विशेषः / स कर्मैव गुणगुणिनोः कथश्चिदैक्यात् / तच्च कर्म १.नन्विहानोर्मी भवति' इति च-पाठः / 2 'प्रकृतेः' इति हु-च-पाठः- 3 'मानकमेव' इति ज-पाठः।