________________ सूत्रं 19 स्वोपज्ञभाष्य-टीकालङ्कृतम् 241 ऽवश्यम्भाविनी, एकत्वपरिणतेश्च विना संसार्यात्मनः सुखदुःखाभाव एव स्याद्, एवमात्मनः कायद्वारेण क्लेशोपपत्तिः “सम्यग्योगनिग्रहो गुप्तिः" (अ०९, सू०४) इत्येतस्मात् सम्यग्ग्रहणमनुवर्तते, तच कायक्लेशविशेषणम् / आगमानुसारिणी सम्यक्क्लेशोत्पत्तिः निर्जरायै न्याय्या। स चागमेऽनेकप्रकारः कायक्लेश उपन्यस्तः। तद्यथेत्यादिना तदनेकविधत्वं दर्शयतिस्थानवीरासनेत्यादि / स्थानग्रहणार्ध्वस्थानलक्षणकायोत्सर्गपरिग्रहः / तस्य चाभिग्रह विशेषात् स्वशक्त्यपेक्षातः कालनियमश्चन्द्रावतंसकनृपतेरिवावगन्तव्यः / वीरासनं तु जानुप्रमाणासनसन्निविष्टस्याधस्तात् समाकृष्यते तदासनं, निवेष्टा च तदवस्थ एवास्ते यदा तदा कायक्लेशाख्यं तपो भवति / तत्राप्यभिग्रहविशेषादेवें स्वसामर्थ्यापेक्षातः कालनियमः। उत्कटुकासनं तु प्रसिद्धमेव विनाऽऽसनेन भूमौ वा प्राप्तस्फिग्द्वयस्य भवति / एकपाश्वशायित्वं स्वधोमुख उत्तानमुखस्तिर्यग्व्यवस्थितो वा कालनियमभेदेन यदवतिष्ठते तत् तपः कायक्लेशाख्यम् / तथा दण्डायतशायित्वं नाम तपः ऋजुकृतशरीरः प्रसारितजङ्घाद्वयश्चलनरहितस्तिष्ठति यदा तदा तद् भवति / तथा आतापनमपि ऊर्ध्वबाहोरूर्ध्वस्थितस्य निविष्टस्य निपण्णस्य वा प्रज्वलितगभस्तिजालस्य सवितुरभिमुखस्थितस्य भवति / अप्रावरणाभिग्रहः शिशिरसमये प्रावरणाग्रहणम्। आदिग्रहणात् हेमन्तेऽपि रजनीष्वातापनं सन्तापनमात्मनः, शीतार्तिसदनमित्यर्थः / तथा सलगण्डशायित्वमप्रतिकर्मशरीरत्वमस्नानक केशोल्लुश्चनमित्येवमेतानि स्थानवीरासनादीनि // भा०-सम्यक् प्रयुक्तानि बाह्यं तपः / टी०-सम्यक् प्रयुक्तानि आगमचोदितानि-अनुगता(नि) बाह्यं तपः / यथाशक्ति विधिनाऽनुष्ठेयम् , अन्यथा त्वविधिप्रयोगादात्मानमितरांश्च धर्मावश्यक विधानात् पीडपेदविध्युपयुक्तविषवत् / किं पुनरितो बाह्यात् तपसः फलमवाप्यत इत्याह बाह्यतपसः अनेकविधं फलम् भा०-अस्मात् षड्विधादपि बाह्यात् तपसः सङ्गत्याग-शरीरलाघवे-न्द्रियविजय-संयमरक्षण-कर्मनिर्जरा भवन्ति // 19 // टी--अस्मात् षइविधादपीति / सङ्गत्यागः शरीरलाघवं इन्द्रियविजयः संयमरक्षणं कर्मनिर्जरा चेत्यनेकं फलमासाद्यते / तत्र निःसङ्गत्वं बाह्याभ्यन्तरोपधिष्वन १.क्षात्' इति ङ-पाठः। 2 एतद्वर्णनार्थ विलोक्यता योगशास्त्रस्य स्वोपज्ञ विवरण (पृ. 177) / ३.निश्चेष्टा' इति उ-पाठः। 4 देतत्' इति उ-पाठः। ५'पेक्षात् ' इति -पाठः। 'नियमस्थस्य' इति ग-पाठः। ७.चोदनानि नुगता बाह्यं' इति च-पाठः /