________________ 240 तत्त्वार्थाधिगमसूत्रम् [ अध्याय: 9 टी.---विविक्तशय्यासनता नामेति / शय्याग्रहणेन प्रतिश्रय-फलक-संस्तारकग्रहणम् / आसनग्रहणेन पीठसिकादिविविक्तं गर्हितजनसम्पातरहितं अचलाशुपिरादि च / विविक्तं च तत् शय्यासनं च विविक्तशय्यासनं तद्भावो विविक्तशय्यासनता / नामशब्दो वाक्यालङ्कारार्थः अभिधानवचनो वा / अस्यैव विवरणमेकान्तेऽनाबाध इत्यादि, पर्यायकथनेन व्याख्यानम् / विविक्तम्-एकान्तम् अनाबाधम् असंसक्तं स्त्रीपशुपण्डकवर्जितमिति पर्यायाः / अथवा एकान्ते इति / 'अम गत्यादिषु' (पा० धा०४६६ ) "सर्वे गत्यर्था ज्ञानार्थाः" इति वचनादमनम्-अन्तः श्रुतज्ञानं तद्व्यापार एवैको यत्र वाचना-प्रच्छनादिभिरुत्सर्पति तदेकान्तम् / अनाबाधे इति / आवाधः-शरीरोपघातः, स.न विद्यते यत्र तदनाबाधम् / असंसक्ते इति सूक्ष्मस्थूलजन्तुरहिते / स्त्रीपशुपण्डकवर्जित इति / स्त्रियो-मानुष्यः पशवो-गो-महिष्य-ऽजाविकाद्याः पण्डका-नपुंसकानि। वस्तुतश्चारित्रोपघात एवैष सर्वः॥ तदेवैकान्तादिगुणयुक्तं प्रतिश्रयादि दर्शयति भा०-शून्यागार-देवकुल-सभा-पर्वतगुहादीनामन्यतमस्मिन् समाध्यर्थ संलीनता // टी.---शून्यागारेत्यादिना / शून्यागारं शून्यगृहमदोषम् / देवकुलं दुर्गाद्यायतनादि / सभा यत्र प्राङ्मनुष्याः समवायमकक्षत / सम्प्रति तु न तत्र समवयन्ति / पर्वतगुहा-पर्वतविवरं गिरिनगरादाविव लयनानि / आदिग्रहणादन्यदपि जीर्णोद्यानमध्यवर्ति मण्डपकादि परिगृह्यते / एषां यथोक्तानां अन्यतमस्थाने व्यवस्थानम् / किमर्थमिति चेत् समाध्यर्थम् / समाधिर्ज्ञानदर्शन-चारित्र-तपो-वीर्यात्मकं पञ्चधा। समाधानं समाधिः ज्ञानादीनामपरिहाणिवृद्धिश्च / इत्थमियं संलीनता तपोविशेषः / इन्द्रियाणि संयम्य सस्वान्तानि क्रोधादिकषायकदम्बकं च विविक्तं शय्यासनमासेवमानस्य संलीनता भवति / प्राप्तेष्विन्द्रियविषयेषु भवितव्यमरक्तद्विष्टेन कषायसंलीनता / क्रोधस्य तावदुदयनिरोधः, प्राप्तोदयस्य च वैफल्यापादनम्, एवं शेषाणामपि / तथा अकुशलमनोनिरोधः कुशलचित्तोदीरेणं वा / एवं वागपि वाच्या। कायव्यापारस्तु समुत्पन्नप्रयोजनस्य यत्नवतः संलीनताव्यपदेशमश्नुते / विना तु प्रयोजनेन निश्चलासनमेव श्रेयः। विविक्तचर्या तु भाष्यकृतवोक्ता। भा०-कायक्लेशोऽनेकविधः। तद्यथा-स्थानवीरासनोत्कटुकासनैकपार्श्वदण्डायतशयनातापनामावृतादीनि / री०-कायक्लेशोऽनेकविध इत्यादि / कायः-शरीरं तस्य क्लेशो-बाधनम् / कायात्ममोरभेदः संसार्यवस्थायामन्योन्यानुगतत्वात् क्षीरोदकादेवि, अतः कायबाधायामात्मनो बाधा एव एतत्सर्व ' इति च-पाठः / 2' निरूपयति' इति हु-च-पाठः। 3 मकृषत ' इति च-पाठः / 4 'दाहरणं बा' इति -पाठः /