________________ सूत्रं 19 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 239 चानुमोदनीयः। स्वयमेव कुर्वन् मुनिना साधुभ्यो दास्यामीति, एवं कृतकारितानुमतिभिः मांसभक्षणे निषेधः प ...... परिहारः सर्वथा भुमुक्षोपदिष्टः शासनाणायिना सर्वनेनेति / अथ यत् 1. कृतकारितानुमतिपरिशुद्धमोदनादिवत् तत् किमिति न वर्ण्यते ? / तदपि गाग्रंपरिहारार्थ यतयः परिहरन्त्येव द्रव्यादिचतुष्टयापेक्षाः / / ननु चैवमोदनादयोऽपि गार्थ्यपरिहारिणा त्याज्याः 1, नैतदेवम्, मांसरसो हि सर्वरसातिशायी वृष्यतमश्च किल। तत्र चावश्यंभावि गाय॑म् / न चैवमोदनादयः // ननु च क्षीर-दधिधृतादयोऽपि रमा वृष्या एवेति, उच्यते--तेऽपि हि मुमुक्षोः सर्वदा नैवानुज्ञाता भगवद्भिः / यदाऽप्यनुज्ञातास्तदापि मात्रया तप्तायोभाजनप्रक्षिप्तधृतादिबिन्दुक्षयवन्न चरणबाधायै प्रत्यलाः / परेणाप्यवश्यमिदमभ्युपेयं, न नियोगतोऽभ्यवहर्तव्यं सर्वमेव, त्रिकोटिपरिशुद्धश्चाहिगजाश्वनरमांसाभ्यवहारप्रसङ्गात् / तस्मान्न सर्वमेव त्रिकोटिपरिशुद्धमभ्यवहार्यम् / मद्यपाने चातिप्रसङ्गः / अथ मद्यपानं प्रकृतिसावधमिति परिहियते / एतदप्यसत् प्राणातिपातसम्बन्धात् रसातिशयगााच / मांसमपि प्रकृतिसावद्यमेव / अपि च-मद्यमुपभुञ्जते युक्तितो येन न तेषु किश्चिदवद्यमुपलभ्यते / .. तस्मान्मांसरसपरित्यागः श्रेयानिति / मधु त्रिप्रकारम्-माक्षिकं कौत्तिकं मधुनस्लैविध्यं भ्रामरं च / एतदपि प्राण्युपघातनिष्पन्नमेवेति परिहार्य द्रव्यादिचतुष्टनवनीतस्य च चातुर्विध्यम् / यापेक्षयेति / गो-ऽमहिष्य-जा-विकानां नवनीतं चतुर्धा / स चापि रसो - वृष्य इति परिहार्यः। आदिग्रहणात् क्षीर-दधि-गुड-घृत-तैलाख्याः पश्चावरुध्यन्ते विकृतयः। तत्र क्षीरविकृतिः पञ्चप्रकारा गो-महिष्य-जा-विको ष्ट्रीणाम् / दधिविकृतिरपि करभीवर्जानां चतुःप्रकारैव / गुडविकृतिरिक्षुविकारः। फाणितादि प्रसिद्ध, खण्ड शर्करावर्जः। दधिविकृतिरिव धृतादिविकृतिरपि चतुर्विधैव / तैल विकक्षीरादिविकृती तिरपि चतुर्विधा / तिला-ऽतसी-सिद्धार्थक कुसुम्भकाख्यानि तैलानि / नां विविधता दशमी घृताधवगाहनिष्पन्ना / अवगाह्यकविकृतिरपूपादिका / साऽपि आदिग्रहणादागृहीतैव / एवमेतासां रसविकृतीनां प्रत्याख्यानं तपः / एता हि वृष्यत्वाद् वाजीकरणप्रसिद्धेश्च, न सर्वदाऽभ्यवहार्याः, चित्तविकारहेतुभूतत्वात् / एवं च विकृतयोऽन्वर्थसञ्ज्ञां लभन्ते / अतो मुमुक्षुणा ललनाऽङ्गप्रत्यङ्गविलोकनवत् प्रत्याख्येयाः / इत्थं च रसपरित्यागलक्षणं विशिष्टं तपः / विरसरक्षाद्यभिग्रहश्चेत्यनेन विनापि विकृतिभिः शक्यं प्राणसंरक्षणं यतिनेति दर्शयन्ति। विगतरसं विरसम्, विकृतिभिरसंसृष्टं विरसं वा / तस्माद रसात् प्रच्युतं रूक्षं कोद्रवाम्लपर्णकम् / आदिग्रहणादन्तप्रान्तपरिग्रहः // भा-विविक्तशय्यासनता नाम एकान्तेऽनाबाधेऽसंसक्ते स्त्रीपशुपण्डका वर्जिते / १'प्रणायिमा' इति ङ-पाठः / 2' षण्डकाववर्जिते' इति घ-पाठः।