________________ 238 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 9 भा०-वृत्तिपरिसख्यानमनेकविधम् / तद्यथा-उत्क्षिप्तनिक्षिप्तान्तप्रान्त. पर्यादीनां सक्तुकुल्माषौदनादीनां चान्यतममभिगृह्यावशेषस्य प्रत्याख्यानम् / टी०-वृत्तिसङ्ख्यानमनेकविधमित्यादि / वर्त्यते यया सा वृत्तिः-भैक्षं तस्याः परिसङ्ख्यानं-परिगणनं, आगमविहितोऽभिग्रहो वा परिगणनं, दत्तिभिक्षयोर्वि नाव दत्तीनां भिक्षाणां वा / तत्र दत्तिर्यदेकमुखेन प्रक्षिपति पात्रकादौ पटलकेन वा दोहनकादिना वा / भिक्षा तु हस्तेनोरिक्षप्य यद ददाति कडुच्छुकेन ओदङ्किकया वा तत् परिगणनम्-एका दत्तिं ग्रहीष्याम्यद्य द्वे तिस्रो वा इत्यादि / एवं भिक्षाणामपि परिगणनं गोचरप्रवेशकाले करोति / तद्यथेत्यादिना अभिग्रहा ... नेकविधत्वं दर्शयति-उत्क्षिसनिक्षिसान्तेत्यादिना / उत्क्षिप्तं पटलका व दिकं कडुच्छुकादिनोपकरणेन दानयोग्यतया दायकेनोद्यतं तादृशं यदि लप्स्ये ततो ग्रहीष्यामि, नावशिष्टमित्युत्क्षिप्तचर्या-उत्क्षिप्ताभ्यवहरणमिति / तथा परो निक्षिप्तचेरकः पूर्वोक्तविपरीतग्राही। इत्थमुत्क्षिप्तचर्यादीनामन्यतममभिग्रहमभिगृह्य पर्यटति भिक्षायै / सक्तुकुलमाषौदनादीनां चेत्यनेन द्रव्य-क्षेत्र-काल-भावविभक्तानभिग्रहान् सूचयति। तत्र द्रव्यतः सक्तुकुल्माषान्नशुष्कोदनम् / आदिशब्दात् तकं एककमाचाम्लपणेकं मण्डकान् वा ग्रहीष्ये, क्षेत्रतो देहली जङ्घयोरन्तः कृत्वा, कालतो विनिवृत्तेषु सर्वभिक्षाचरेषु, भावतो इसनरोदनादिव्यापृतो निगडादिबद्धोऽक्ताक्षः कृततमालपत्रो वा दायको ददाति यत्, तदेवमन्यतमं द्रव्याघभिगृह्य शेषप्रत्याख्यानं वृत्तिपरिसङ्ख्यानं तप इति / / भा०-रसपरित्यागोऽनेकविधः / तद्यथा-मद्य-मांस-मधु-नवनीतादीनां रसविकृतीनां प्रत्याख्यानं विरसरक्षाद्यभिग्रहश्च // . ___टी-रसपरित्यागोऽनेकविध इत्यादि / रस्यन्ते-खाद्यन्तेऽतिशयेनेति रसाः / वत्परित्यागो हि तत्परिहारः / सोऽनेकप्रकारस्तद्बहुत्वादेव / तद्यथेत्यादिना रसान् प्रत्यक्षीकरोति, मद्य-मांसेत्यादि / तेत्र मद्यं गौडपिष्टद्राक्षाख घुरादिद्रव्यसम्भारोपजातमदसामर्थ्य विषगरादिवज्जीवमस्वतन्त्रं करोति, अस्वतन्त्रश्च तद्वशः कार्याकार्यविवेकशून्यः प्रभ्रष्टस्मृतिसंस्कारो न किश्चिन्नाचरति गर्हितम् / [ अतो नित्यावपरिहार्यद्रव्यक्षेत्रकालभावापेक्षयाऽनुयुक्तितः शुद्धेनागमानुसारिणा यथायुक्तमाचरणीयं,] सर्वथा तत्परित्यागस्तपः। मांसं तु प्राणिशरीरावयवः, तच्च प्राणव्यपरोपणमन्तरेण दुष्प्रापम् / प्राणातिपातश्च स्वशरीरसम्भूतदुःखानुमानेन न शक्यः प्राज्ञेन कर्तु, स्वयं न करोतीत्यन्यः कार्यत इत्येतदपि न, अन्योऽपि नैव कार्यते / न 1 'तान्तप्रान्त ' इति घ-पाटः / 2 'कटुच्छकन ' इति उ-च-पाटः / 3 'उदङ्किकया.' इति ग-च-पाठः। 'चरकां' इति ङ-पाठः 5. देवमद्रव्या' इति उ-पाठ