________________ भक्तप्रत्याख्यानानशनम् सूत्र 19 ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 237 प्रवज्यादिप्रतिपत्तिक्रमेणैवायुषः परिहाणिमवबुध्य आत्तनिजोपकरणः स्थावरजङ्गमप्राणिर विवर्जितस्थण्डिलस्थायी एकाकी कृतचतुर्विधाहारप्रत्याख्यानः छायात - उष्णं उष्णाच्छायां सङ्क्रामन् सवेष्टः सम्यग्ज्ञानपरायणः प्राणान् जहाति। एतदिङ्गिनीमरणमपरिकर्मपूर्वकं चेति / भक्तप्रत्याख्यानं तु गच्छमध्यवर्तिनः, स कदाचित् त्रिविधाहारप्रत्याख्यायीति, कदाचिच्चतुर्विधाहारप्रत्याख्यायी, पर्यन्ते कृत" समस्तप्रत्याख्यानः समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीराद्युपकरणममत्वः " स्वयमेवोग्राहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वा उद्वर्तनपरिवर्तनादि कुर्वाणः समाधिना करोति कालमेतद् भक्तप्रत्याख्यानं मरणमिति // उक्तमनशनम् / अवमौदर्यमुच्यते-- भा०-अवमौर्यम् / अवममित्यूननाम / अवर्ममुदरमस्य ( इति ) अवमोदरः। अवमोदरस्य भावः अवमोदयम् // ___टी–अवमौर्यम् / अवममित्यूननामेत्यादि / अवमं न्यूनमुदरमस्येत्यवमोदरः तद्भावोऽवमौर्य-न्यूनोदरता // कवलप्रमाणनिरूपणार्थमाह भा०-उत्कृष्टावकृष्टौ च वर्जयित्वा मध्यमेन कवलेन त्रिभवमौदर्यस्य यस्य विधमवमोदयं भवति / तद्यथा-अल्पाहारावमवौदर्य, उपात्रैविध्यम् र्धावमौदर्य, प्रमाणप्राप्तात् किश्चिदूनावमौदर्यमिति / कवलपरिसङ्ख्यानं च प्राग द्वात्रिंशयः कवलेभ्यः // टी-उत्कृष्टावकृष्टावित्यादि / उत्कृष्टो विकृत्य मुखविवरं यत्नतो महाप्रमाणं कृत्वा यः प्रक्षिप्यते, अवकृष्टस्त्वत्यन्तलघुकः, तौ वर्जयित्वा मध्यमेन कवलेनाविकृतस्वमुखप्रमाणेनावमौदर्य कार्यम्, तच्च त्रिविधमवमौयं तद्यथेत्यादिना प्रत्यक्षीकरोतिअल्पाहारावमौर्यमित्यादि / तत्राहारः पुंसो द्वात्रिंशत्कवलप्रमाणः / कवलाष्टकाभ्यवहारोऽल्पाहारावमौदर्यम् / उपार्धावमौर्य द्वादश कवलाः, अर्धसमीपम् उपाध, द्वादश कवलाः, यतः कवलचतुष्टयप्रक्षेपात् सम्पूर्णमधं भवति / प्रमाणप्राप्ताहारो द्वात्रिंशत्कवलः / स चैकेन कवलेन न्यूनः किश्चिदूनावमौदर्यं भवति / इतिशब्दः प्रकारार्थः / प्रमाणप्राप्तावमौदर्य चतु विशतिः कवलाः / [भागद्वयावमौदर्य षोडश कवलाः] त्रिविधे चावमौदर्ये पुरुषप्रमदाना एकैककवलहासेन वहनि स्थानानि जायन्ते / सर्वाणि च तान्यवमौदर्यकवलसङ्ख्या विशेषाः / कवलपरिसङ्ख्यानं चेति पुरुषस्य द्वात्रिंशत् , योषितोऽष्टाविंशतिः, अतो विभागः कार्यः / १'साधुकृत' इति ग-पाठः। २'ममूनभुदर' इति ग-पाठः /