________________ 236 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 1 भा०-अनशनं 1 अवमौदर्य 2 वृत्तिपरिसङ्ख्यानं 3 रसपरित्यागः 4 विविक्तशय्यासनता 5 कायक्लेशः 6 इत्येतत् षड्विधं बाह्यं तपः // “सम्यग् योगनिग्रहो गुप्तिः" ( अ० 9, सू० 4) इत्यतःप्रभृति सम्यगित्यनुवर्तते, संयमरक्षणार्थ कमनिर्जराथं च चतुर्थषष्ठाष्टमादि सम्यगनशनं तपः // टी०-अनशनमवमौदयं वृत्तिपरिसङ्ख्यानमित्यादि। प्राक् प्रकृतः सम्यकशब्दोऽनुवर्तते / स च विशेषणम्-सम्यगनशनं सम्यगवमौदर्यम् , एवं च सर्वत्र वृत्तिपरिसङ्ख्यानादिष्वपि / किं पुनर्विशेषणेन व्यावयते ?, नृपशत्रुतस्करकृताहारनिरोधादि तथा पतिनिमित्त __माजीवादिहेतोः उपहतभावदोषस्य हि न संयमरक्षणं न च कर्मनिर्जरेत्यतः सम्यग्ग्रहणे हेतवः सम्यग्ग्रहणम् / यस्तु प्रवचनोदितशु(श्रा)द्धतया स्वसामर्थ्यापेक्षो द्रव्यक्षे त्रकालभावाभिज्ञः क्रियाश्चाहापयन्नहोरात्राभ्यन्तरकार्याः करोत्यनशनादितपः स कर्मनिर्जराभार भवतीत्येवैमर्थमनुवय॑ते / सम्यग्ग्रहणं बालतपःप्रतिषेधार्थ च / संयमः सप्तदशभेद उक्तः (अ०९, सू०६), चारित्रं वा पञ्चप्रकार संयमः। तत्परिपालनाय रसत्यागादि सम्यक्तपो भवति / कर्म ज्ञानावरणादि तस्य निर्जरा-आत्मप्रदेशेभ्यः परिशांटनम् / यथोक्तम् (प्रशमरतौ श्लो० १५९)-यद्वद् विशेषणादुपचितोपीत्यादि / तपश्च प्रायः सवे समये प्रतीतं शुभाशुभकर्मक्षयायेत्येवं कर्मनिर्जरणार्थ चेत्युक्तम् / चशब्दः समुच्चयार्थः / तत्रानशनमादावेव, आहारगवेषणे यत्नवानपि संयतः केनचिदतीचारकलङ्कन युज्यत एवेति तत्परिहारायोपन्यस्तं सप्रपञ्चं चतुर्थषष्ठाष्टमादीत्यादिना, अशनम्-आहारस्तत्परित्यागोऽनशनम् / तद् द्विधा-इत्वरं यावज्जीवकं च। तत्रेवरं - नमस्कारसहितादि / चतुर्थभक्तादि तु भाष्यकारेणोपन्यस्तमतीत्वर - त्वादितरदुपेक्षितम् चतुर्थभक्तादि षण्मासपर्यवसानमित्वरमनशनं भगवतो महावीरस्य तीर्थे / यावज्जीविकं तु त्रिविधम्-पादपोपगमनं, इङ्गिनी, भक्तप्रत्याख्यान __ मिति / तत्र पादपोपगमनं द्विधा-सव्याघातमव्याघातं च / सतोऽप्यायावजीविकान शनस्यभेदप्रभेदाः // युषो यदोपक्रान्तिः क्रियते समुपजातव्याधिनोत्पन्नमहावेदनेन तत् सव्याघातम् / निर्व्याघातं तु प्रव्रज्याशिक्षापदादिक्रमेण जराजर्जरितशरीरः करोति यदुपहितचतुर्विधाहारप्रत्याख्यानो निर्जन्तुकं स्थण्डिलमाश्रित्य पादप इवैकेन . पार्श्वेन निपत्यापरिस्पन्दस्तावदास्ते प्रशस्तध्यानव्यापृत्तान्तःकरणो पादपोगमनानशनम् यावदुत्क्रान्ताः प्राणास्तदेतत् पादपोपगमनाख्यं अनशनम् / इङ्गिनी श्रुतविहितक्रियाविशेषस्तद्विशिष्टं मरणमिङ्गिनीमरणम् / अयमपि हि 1 व्याकृत्यते' इति ङ-पाठः। 2 'त्येवमनु' इति ङ-पाठः / 3 'शटनं ' इति च-पाटः / 4 सम्पूर्ण पद्यं यथा "यद्वदू विशोषणादुपचितोऽपि यत्नेन जीयते दोषः। तद्वत कर्मोपचितं निर्जरयति संवृतस्तपसा // " इत्वरमनशनम्