________________ सूत्रं 191 स्वोपज्ञमाध्य-टीकालङ्कृतम् 235 संक्लिष्टाध्यवसायस्य संक्लिष्टं, सूक्ष्मः-श्लक्ष्णावयवः सम्परायः-कषायः संसारभ्रान्तिहेतुर्यत्र तत् सूक्ष्मसम्परायम् / स चोपशान्तकपायोऽपि स्वल्पप्रत्ययलाभाद् दवदग्धाञ्जनद्रुमवदुदकासेचनादिप्रत्ययलाभादङ्करादिरूपेण भस्मच्छन्नाग्निवद् वा वाविन्धनादिप्रत्ययतः स्वरूपछुपदर्शयति, तद्वदसौ मुखवस्त्रिकादिषु ममत्वसमीरणेन सन्धुक्षमाणः कपायानिश्चरणेन्धनमामूलतो दहन् प्रच्याव्यते प्रतिविशिष्टाध्यवसायादिति / क्षायिकी तु श्रेणिरनन्तानुबन्धिनो मिथ्यात्वमिश्रसम्यक्त्वानि अप्रत्याख्यानप्रत्याख्यानावरणाः नपुंसकत्रीवेदौ हास्यादिपट्कं पुंवेदः संज्वलनाश्च, अस्याश्चोरोहकः अविरतदेशप्रमत्ताप्रमत्ताविरतानामन्यतमो विशुध्यमानाध्यवसायः। स चानन्तानुबन्धिनो युगपदेव क्षपयत्यन्तर्मुहूर्तेन / ततः क्रमेण दर्शनत्रिकं, क्षपकश्रेणीवर्णनम् " ततोऽप्रत्याख्यानप्रत्याख्यानावरणांश्च युगपदेव क्षपयितुमारभते / विमध्य. भागे चैपामिमाः पोडश प्रकृतीः क्षपयति-नरकतिर्यग्गती एतदानुपूव्यौँ एकद्वित्रिचतुरिन्द्रियजातीयातपोद्दयोतस्थावरसाधारणसूक्ष्मनामानि, ततो निद्रानिद्राप्रचला. प्रथलास्त्यानीः , ततोऽष्टानां शेषं, ततोऽनुदीण वेदं जघन्यं पूर्ववत् , ततो हास्यादिषट्कं, ततोऽप्युदितं वेदं, ततः संज्वलनानामेकैकं क्रमेण क्षपयति, सावशेषे च पूर्वसंज्वलनकषाये उत्तरं क्षपयितुमारभते / सर्वत्र पूर्वशेषं चोत्तरेणैव सह क्षपयति यावत् संज्वलनलोभसङ्ख्येयभागः / तमपि सङ्ख्येय( भाग )मसङ्ख्यानि खण्डानि कृत्वा प्रतिसमयमेकैकं खण्डं क्षपयति, तदा[पि] सूक्ष्मसम्परायसंयमी भवति / समस्तमोहनीयोपशमे तु एकादशगुणस्थानप्राप्त उपशान्तकषायो यथाख्यातसंयमी भवति / क्षपकस्तु सकलमोहाणेवमुत्तीणों निग्रेन्थो यथाख्यातसंयमी जायते / अथशब्दो यथाशब्दार्थे / यथा ख्यातः संयमो भगवता तथाऽसावेव, कथं च ख्यातः 1, अकषायः, स चैकादशद्वादशयोर्गुणस्थानयोः, उपशान्तत्वात् क्षीणत्वाच कपायाभाव इति / एवं पञ्चविधं चारित्रमष्टविधकर्मचयरिक्तीकरणात् / तच्च पुलाकादिषु विस्तरेण वक्ष्यामः पुलाकादिसूत्रे उपरिष्टात् ( अ० 9, सू. 48), पुलाकादिभेदेषु सामायिकादिसंयमः पञ्चप्रकारोऽपि पञ्चसु पुलाकादिनिग्रन्थेषु विस्तरेण-प्रपञ्चेन भावयिष्यत इति // 18 // उक्तं चारित्रं, प्रकीर्णकं च तपः, सम्प्रत्यनशनादिकं तपो भण्यते--- सूत्रम्-अनशना-ऽवौंदर्य-वृत्तिपरिसङ्ख्यान-रसपरिबाह्यतपसः षविधता त्याग-विविक्तशय्यासन-कायक्केशा बाह्यं तपः॥९-१९॥ ___टी-द्विविधं तपः-बाह्यमभ्यन्तरं च, तत्र बाह्याभ्यन्तरशब्दार्थः प्राइ निरूपितः / तदेकैकं षोढा / तत्र बाह्यस्य तावद् भाष्यकारो भेदानाचष्टे षडपि मूत्रं विवृण्वन् 1 ‘न्धनादिमामूल ' इति घ-पाठः / 2 'स्त्वारोहकः ' इति च-पाठः / 3 ' जातिरातपो' इति घ-पाटः /