________________ 234 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 9 यैरिति परिभुक्ततादग्विधतपसः, निर्विष्टकायिका इत्यर्थः / परिहारविशुद्धिकं च तपः प्रतिपन्नानां नवको गच्छः / तत्र परिहाराचारिणश्चत्वारोऽनुपरिहारिणोऽपि चत्वारः कल्पस्थित एकः, वाचनाचार्य इत्यर्थः / सर्वेऽपि ते श्रुताद्यतिशयसम्पन्नाः तथापि रुच्या (रूढ्या ?) कल्पस्थित एकः कश्चिदवस्थाप्यते / तत्र ये कालभेदेन विहितं तपोऽनुतिष्ठन्ति ते परिहारिणः। नियताचाम्लभक्तास्त्वनुपरिहारिणस्तेषामेवाभिसराः, तपोग्लानानां परिहारिणां सहायके वर्तन्ते / कल्पस्थितोऽपि नियताचाम्लभक्त एव / तच्च तपः परिहारिणां ग्रीष्मे चतुर्थषष्ठाष्टमभक्तलक्षणं जघन्यमध्यमोत्कृष्टं क्रमेणैव / शिशिरकाले षष्ठाष्टमदशमानि जघन्यमध्यमोत्कृष्टानि / वर्षास्वष्टमदशमद्वादशभक्तानि जघन्यमध्यमोत्कृष्टानि / पारणाकालेऽप्या 1. चाम्लमेव पारयन्ति / उक्त विधानं तपः षण्मासं कृत्वा परिहारिणोऽनुपरिहारविशुद्धिसंयमस्य सीमा परिहारित्वं प्रतिपद्यन्ते / अनुपरिहारिणश्च परिहारिणो भवन्ति / तेऽपि " षण्मासान् विदधते तत् तपः, पश्चात् कल्पस्थित एकाक्येव षण्मासावधिक परिहारतपः प्रतिपद्यते / तस्य चैकोऽनुपरिहारी भवति, तन्मध्ये अपरश्चैकः कल्पस्थित इति, एवमेष परिहारविशुद्धः संयमोऽष्टादशभिर्मासैः परिसमाप्तिमुपयाति / परिसमाप्ते तु तस्मिन् पुनस्तदेव केचित् परिहारतपः प्रतिपद्यन्ते स्वशक्यपेक्षाः, केचिद् वा जिनकल्पम् , अपरे तु गच्छमेव वा विशन्तीति / परिहारविशुद्धिकाश्च स्थितकल्प एव प्रथमचरमतीर्थकरतीर्थयोरेव, न मध्यमतीर्थेष्विति / सूक्ष्मसम्परायसंयमस्तु श्रेणिमारोहतः प्रपततो वा भवति / श्रेणिरपि द्विप्रकारा-औपशमिकी क्षायिकी च / तत्रौपशमिकी अनन्तानुबन्धिनो मिथ्यात्वादित्रयं नपुंसकस्त्रीवेदी हास्यादिषट्कं पुंवेदः अप्रत्याख्यानावरणाः संज्वलनाश्चेति / अस्याश्च आरम्भकोप्रमत्तसंयतः। अपरे तु ब्रुवते-"अविरतदेशप्रमत्ताप्रमत्तविरतानामन्यतमः प्रारभते, र स चानन्तानुबन्धिनश्चतुरोऽपि समकमेव शमयति अन्तर्मुहूर्तेन, ततो औपशमिकी " दर्शनत्रिकं, ततोऽनुदीर्ण पुमानारोहन्नपुंसकवेदं, ततः स्त्रीवेदं, योषिदारो हन्ती, प्राग नपुंसकवेदं, ततः पुरुषवेदं, तृतीयप्रकृतिरधिरोहन प्राक स्त्रीवेदं, ततः पुरुषवेदं, ततोऽपि हास्यादिषट्कं ततः (नपुंसक )पुंवेदं, ततोऽप्रत्याख्यानानां प्रत्याख्यानावरणानां च युगपदेव द्वौ क्रोधौ संज्वलनक्रोधान्तरितौ शमयति, पश्चात् संज्वलनक्रोध, पुनद्वौ मानौ, पश्चात् संज्वलनमानं, पुनझै माये, ततः संज्वलनमायां, पूनौ लोभी, पश्चात् संज्वलनलोभम् / सख्येयानि खण्डानि कृत्वा क्रमेण चोपशमय्य पश्चिमखण्डमसङ्ख्येयानि खण्डानि करोति / ततःप्रतिसमयमसङ्ख्येयभागमुपशमयन् समस्तमन्तमुहर्तेन शमयति। तचासङ्ख्येयभागान् शमयन् सूक्ष्मसम्परायसंयमी भवति / अत्यन्तविशुद्धाध्यवसायो दशमगुणस्थानवर्ती, श्रेण्यारोहे च वर्धमानविशुद्धाध्यवसायस्य विशुद्धमवतरता . श्रेणी 'षण्मासी' इति ङ-च-पाठः। 2 'हारिणं' इति -पाठः / 3 'सावधिकं' इति घ-च-पाठः /