________________ सूत्र 18] स्वोपज्ञभाष्य टीकालङ्कृतम् 233 - टी०-सामयिकादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः, केचित् विच्छिन्नपद मेव सूत्रमधीयते, एकमेव चारित्रं समुदाये मा प्रापदिति, तच्च नातीव सूत्रपाठावमशः बहु मन्यामहे, सामायिकमेवेदं छेदोपस्थाप्यादिभेदेन ज्ञापितम्, गतोऽतः परमार्थत एकमेव चारित्रं संयम इति अभेदं मन्यमानो भाष्यकृदाह-सामायिकसंयम इत्यादि / सर्वसावद्ययोगविरतिलक्षणं सामायिक, तद्विशेषा एव छेदोपस्थाप्यादयः, विशुद्धतराध्यवसाय विशेषाः सावद्ययोगविरतेरेव / तत्र शब्दनिर्भेदः-रागद्वेषविरहितः समः अयो-गमनम् / सकलकियोपलक्षणमेतत् / सर्वेव क्रिया साधोररक्तसामायिकHIR द्विष्टस्य निर्जराफला / समस्यायः समायः, समाय एव सामायिकमिति - स्वार्थिकः ठक् / समाये वा भवं सामायिक, समायेन 'निर्वृत्तं सामायिकं, समायस्य वा विकारः तन्मयः सामायः, स प्रयोजनमस्येति वा, सर्वत्र यथाऽभिप्रेतेऽर्थे ठक् / तष सामायिकं द्विप्रकारम्-इत्वरकालं यावज्जीविकं च / तत्राद्यं प्रथमान्त्यतीर्थकर ___ तीर्थयोः प्रव्रज्याप्रतिपत्तावारोपितं शस्त्रपरिज्ञाध्ययनादिविदः श्रद्दधतः सामायिकस्य स, छेदोपस्थाप्यसंयमारोपणविशिष्टतरत्वाद् विरतेः सामायिकव्यपदेश द्वविध्यम् - जहातीत्यत इत्वरकालम् / मध्यमतीर्थकृतां विदेहक्षेत्रवर्तिनां च यावज्जीविकं-प्रव्रज्याप्रतिपत्तिकालादारभ्य-आप्राणप्रयाणकालादवतिष्ठते / प्रथमान्त्यतीर्थकरशिष्याणां सामान्यसामायिकपर्यायच्छेदो विशुद्धतरसर्वसावद्ययोगविरताववस्थानं विविक्ततरमहावतारोपणं छेदोपस्थाप्यसंयमः। छेदोपस्थापनमेव छेदोपस्थाप्यम् / पूर्वपर्यायछेदोपस्थाप्यस्य ___च्छेदे सति उत्तरपर्याये उपस्थापनं भावे यतो विधानात् / तदपि विविधता त्यस्य द्विधा, निरतिचार-सातिचारभेदेन / तत्र शिक्षकस्य निरतिचारम " धीतविशिष्टाध्ययनविदः मध्यमतीर्थकरशिष्यो वा यदोपसम्पद्यते चरमतीर्थकरशिष्याणामिति / सातिचारं तु भनमूलगुणस्य पुनर्वतारोपणात् छेदोपस्थाप्यम् / उभयं चैतत् सातिचौरं निरतिचारं च स्थितकल्प एव, आद्यन्ततीर्थङ्करयोरेवेत्यर्थः / परिहारः-तपोविशेषस्तेन विशुद्धं परिहारविशुद्धिकं चेति / तदपि द्विधा-निविश्यमानक .. निर्विष्टकायिकं च / तत्र निर्विश्यमानकम्-आसेव्यमानकं, परिपरिहारविशुद्ध द्विविधत्वम् " भुज्यमानकमित्यर्थः, निर्विष्टकायिकमासेवितमुपभुक्तम्, तत्सहयोगात् तदनुष्ठायिनोऽपि निविश्यमानकाः ताच्छील्ये शक्ती वा चानश् / निर्वेशः-उपभोगः, निविंशमानकास्तत् उपभुञ्जानाः, निर्विष्टकायिकास्तु निर्विष्टः कायो पामस्ति ते निर्विष्टकायिकास्तत्सहयोगात् तेनाकारेण तपोऽनुष्ठानद्वारेण परिभुक्तः कायो 1 "निवर्तितं ' इति टु-पाटः। 'चारमनतिचार ' इति च-पाठः / 2 'सामान्ययतिपर्याय ' इति घ-पाठः / 3 विधत्ते' इति घ-पाठः /