________________ 232 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 9 सूत्रम्-एकादयो भाज्या युगपदैकोनविंशतः // 9-17 // भा०—एषां बाविंशतः परीषहाणामेकादयो भजनीया युगपदेकस्मिन् जीवे आ एकोनविंशतेः / अत्र शीतोष्णपरीषही युगपन्न योगपचेन परी - भवतः, अत्यन्तविरोधित्वात्। तथा चर्याशय्यानिषद्यापरी षहाणामेकस्य सम्भवे व्योरभावः // 17 // टी.-एकादय इति तद्गुणसंविज्ञानो बहुव्रीहिः / अथवैकशेषः / एकश्वासावादिङ कादिः, एक आदिर्येषां ते एकादयः, एकादिश्च एकादयश्च एकादयः। तदेते दाविंशतिः परीषहा भाज्या-विकल्प्या युगपदेकस्मिन् यतौ / तत्र कस्यचिदेकः कस्यचिद् द्वौ कस्यचित् प्रयस्तावद् यावदेकोनविंशतिरविरोधात् युगपदेकत्रोदयन्ते, विरोधात तु न द्वाविंशतिरप्येकस्मिन् युगपदिति / भाज्या इति णिजन्ताद्यत् / णिजपि चौरादिकः / आ एकोनविंशतेरिति एकेनोना विंशतिरिति तत्र समासः। तृतीयेति योगविभागानञः प्रकृतिभावः। आधुक्तः, ऊनार्थाभिधायी चात्र नञ् / एकेनोना विंशतिरित्यर्थः / विंशतिशब्दस्य द्विदशवर्गनित्तित्वात द्वौ दशको परिमाणमस्य सङ्घस्य विंशतिः / एकवचनान्तता एकत्वेन निपातनात् / बहुत्वाद् बहुवचनमिति चेत् न, एकार्थत्वाद् यथ-वनादिवत् / कथं पुनरेकोनविंशतिः समस्ति युगपत् न पुनाविंशतिरपीत्याह-अत्यन्तविरोधादिति / शीतोष्णयोरसहावस्थानलक्षणो विरोधः परस्परपरिहारेण स्थितिः। अत्यन्तग्रहणं पर्यायनयविवक्षाप्राधान्यख्यापनार्थम् / शीतोष्णपर्यायावत्यन्तभिमो-विरुद्धौ, तयोश्चैकस्मिन् काले नैकत्वेनावस्थानम् / द्रव्यार्थिकस्य तु तदेव द्रव्यमपास्तसमस्तपयोयं शीतमुणं चेत्युत्थितासीनपुरुषवद् उत्फणविफणीभूतसर्पवद् वा नास्ति कश्चिद् विरोधः। तथा चयो-शय्या-निषद्यानामेकस्य सम्भवे द्वयोरभावः। चोयां सत्यां निषधा-शय्ये न स्तः / निषद्यायां तु शय्या-चर्ययोरभावः। शय्यायां पुनर्निषद्या-चर्ये न भवतः इति प्रयो वय॑न्त इति // 17 // उक्तः परीषहजयः। सम्प्रति प्रस्तावप्राप्तं चारित्रमुच्यतेचारित्रस्य सूत्रम्-सामायिक-च्छेदोपस्थाप्य-परिहारविशुद्धि सूक्ष्मसम्पराय-यथाख्यातानि चारित्रम् // 9-18 // भा०-सामायिकसंयमः 1 छेदोपस्थाप्यसंयमः 2 परिहारविशुद्धिसंयमः 3 सूक्ष्मसम्परायसंयमः 4 यथाख्यातसंयमः 5 इति पञ्चविधं चारित्रम् / तत पुलाकादिषु ( अ० 9, सू०४८ ) विस्तरेण वक्ष्यामः / / 18 // पञ्चविधत्वम् 'भा' इत्यधिको ग-पाठः। 2 'एकानविंशतः एकेन न विंशतिरिति नसमासः' इति च-पाठः /