________________ सूत्राणि 14-16] स्वोपज्ञभाष्य-टीकालङ्कृतम् 231 - सूत्रम्-दर्शनमोहा-ऽन्तराययोरदर्शनालाभौ // 9-14 // भा०-दर्शनमोहान्तराययोरदर्शनालाभौ यथासङ्ख्यं दर्शनमोहोदयेऽदर्शमपरीषहः / लाभान्तरायोदयेऽलाभपरीषहः // 14 // ____टी०-दर्शनमोहः-अनन्तानुबन्धिनो मिथ्यात्वादित्रयं च, यथासङ्ख्यमिति क्रमेण दर्शनमोहे अदर्शनपरीषहः / अन्तराये अलाभपरीषहः / अदर्शनम्-अश्रद्धानं देवादिसद्भावविषयम् , अतो मिथ्यात्वानुबन्धाद् दर्शनमोहेऽन्तःपात इति // 14 // सूत्रम्-चारित्रमोहे नाम्या- रति-स्त्री-निषद्या-ऽऽक्रोश-याचना ‘सत्कारपुरस्काराः॥९-१५ // भा०-चारित्रमोहोदये एते नाग्न्यादयः सप्त परीषहा भवन्ति // 15 // टी०-दर्शनमोहवर्ज शेषं चारित्रमोहनीयम् / चारित्रं मूलोत्तरगुणसम्पन्नान्मोहनात् पराङ्मुखत्वाचारित्रमोहनीयम् / तदुदये सत्येते नाग्न्यादयः सप्त परीषहा भवन्ति / नाग्न्यं जुगुप्सोदयात् / अरत्युदयादरतिः / स्त्रीवेदोदयात् स्त्रीपरीषहः / निषद्यास्थानासेवित्वं भयोदयात् / क्रोधोदयादाक्रोशपरीषहः / मानोदयाद् याच्यापरीषहः / लोभोदयात् सत्कार (पुरस्कार)परीषह इति // 15 // सूत्रम्-चेदनीये शेषाः // 9-16 // भा०-वेदनीये शेषा एकादश परीषहा भवन्ति ये जिने सम्भवन्तीत्युक्तम् ( अ०९, सू० 11) / कुतः शेषाः ? एभ्यः प्रज्ञा-ज्ञान-दर्शना-लाभनाग्न्या-ऽरति-स्त्री-निषद्या-ऽऽक्रोश-याचना-सत्कारपुरस्कारेभ्य इति // 16 // टी-वेदनीयकर्मोदये शेषाः एकादश परीषहाः सम्पतन्ति / कुतः शेषाः ? उपर्युक्तेभ्योऽन्ये शेषाः। के पुनरुपयुक्ताः१ प्रज्ञा-ज्ञाने अदर्शना-ऽलाभौ सप्त च नाग्न्यादयः, एभ्यः शेषाः केवलिनो ये सम्भवन्ति / एकादश जिने प्रागुक्ताः क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलपरीपहाख्या इति // 16 // एवमेते व्याख्यातनिमित्तलक्षणविकल्पाः आवादरसम्परायात् सर्वे भवन्ति / परतस्तु नियताः। तत् किमेते कदाचित् सर्वेष्वेकस्य जन्तोर्योगपद्येन सम्भवन्ति न वा? सम्भवन्तीत्याह १'नुवेधात् ' इति घ-पाठः। २'ततः' इति च-पाठः। ३'केवलिनि' इति घ-पाठः।