________________ 242 तत्त्वार्थाधिगमसूत्रम् [अध्यायः 9 भिष्वङ्गो-निर्ममता। प्रतिदिनमतिमात्राहारोपयोगात् प्रणीताहारोपयोगाच्च शरीरस्य गौरवं, ततश्च मासकल्पविहारित्वायोग्यता / तद्वर्जनात् तु शकटाभ्यञ्जनवदुपयोगाद् वा शरीरलाधवमुपजायते / ततश्चाप्रणीतशरीरस्योन्मादानुद्रेकादिन्द्रियविजयः / भक्तपानार्थमहिण्डमानस्य चर्याजनितजन्तूपरोधाभावात् संयमरक्षणं निःसङ्गादिगुणयोगादनशनादितपोऽनुतिष्ठतः शुभध्यानव्यवस्थितस्य कर्मनिर्जरणमवश्यं भवतीति / अत्र केचिन्मोहान्धतमसछाया(च्छ)नाचोद यन्ति-आतापनशिरोलुश्चनानशनकायोत्सर्गादिकायक्लेशोपक्रमेण न कर्मतासाधकः पूर्वपक्षः ल. विच्छेदो भवतीति प्रतिजानते। विकल्प्य चैनमथ युक्त्या प्रसाधयन्ति / दुःखं चेत् पूर्वकृतजं व्यर्थो यत्नो न वा क्षयः, कर्माभावो न वा मोक्षो वेति नाकृतद्वन्द्वः। यत् तदनेकेनोपक्रमेणातापनादिना प्रयोगेणोपक्रमिकं बुद्धिपूर्वकमात्मानं तापयता दुःखमुपजायते तत् किं पूर्वकृतकर्महेतुकमाहोस्त्रिदातापनाद्युपक्रमेणैव जनितमिति / तत्र यदि प्रथमो विकल्पः पूर्वकृतकर्महेतुकं तदातापनादिजं दुःखमेव तर्हि व्यर्थ एवातापनाद्युपक्रमः / पूर्वकृतकर्मविपाके ह्यातापनादिप्रयत्नस्यानीश्वरत्वदर्शनान्नारकादिष्विति / ततश्चाहतानामात्मसन्तापनाशुपक्रमविशेषवैयर्थ्यमन्यजन्मकृतकर्मफलोपभोगित्वान्नारकादिवदिति प्रयोगः / न च तत् पूर्वकृतकर्मजं दुःखं प्रयत्नानुविधायित्वान्नर्तकीभ्रूभङ्गवदिति / कायकेशस्य अथ द्वितीयो विकल्पः-आतापनाशुपक्रमजनितमेव दुःखं, न पूर्वकृतकर्महेतुकम् , एवं तर्हि न वा क्षयः, कर्मणां क्षयाभावो वा यत्नवैयर्थ्य वेति वाशब्दाद विकल्पः। नहि पूर्वकृतस्य पापस्य क्षयः सिद्धयति, तत्फलाप्रतिवेदनात्, अदत्तफलत्वादित्यर्थः / न तस्य कर्मणः परिक्षयः, अदत्तफलत्वात्, इतरादत्तफलकर्मवत् / अथ आतापनादिप्रयत्नोऽपि पूर्वकृतहेतुक एवाभ्युपेयते, न तर्हि कश्चित् पुरुषकारोऽस्तीति प्राप्तः काभावः। असति च पुरुषकारे प्राक्तनस्याकृतत्वादभावः स्यात् कमेणो यस्यायमातापनादिप्रयत्नं फलमभ्युपगम्यते तदपि प्राक्तनं कमे न सिध्यति इत्यत्यन्ताभाव एव कर्मणां प्राप्तः / न वा मोक्षः। अथ योऽसौ पापस्य कर्मणो विपाकः सोऽपि कर्मैव प्रतिज्ञायते, अतस्तदप्यौपक्रमिकं कर्म प्राप्नोति, पापविपाकत्वात् / अतो न सिध्यति मोक्षः, पापक्षयासम्भवात् / न वा पापस्य कमेण: कुशलो विपाक आतापनादिः समस्ति, कुशलस्यापि अकुशल विपाकप्रसङ्गादिति / स एव मोक्षाभावप्रसङ्गः / नैवार्हताना पापस्य कर्मणः क्षयः सम्भाव्यते। असश्चेतिता कृतवन्धतः असञ्चेतितमपि प्राणातिपातादि कुर्वनेनसा युज्यते / लोकश्च व्याप्तः स्थावरजङ्गमजन्तुभिः सूक्ष्मदिरैश्च / तत्र चावश्यम्भावी चक्रमणादिक्रियासु जन्तुवधः। तथा अप्रकुर्वतोऽपि च पापं परेषामनुत्पादयन्तोऽपि च दुःखं कामक्रोधशोकभयादीनां निमित्तीभवन्तः पापेन युज्यन्ते / एवमसश्चेतितबन्धतोऽकृतबन्धतश्च १'चर्याजन्तूप. ' इति उ-च-पाठः। 2 'भावीति' इति उ-च-पाठः / 3 'प्रपन्नानु' इति च-पाठः / 4 'कर्मणः इति ङ-पाठः /