________________ 228 नवाधिगममत्रम् [ अध्यायः 9 रोगो अग- तीमार-काम-श्वासादिः, तस्य प्रादुर्भावे सत्यपि न गच्छनिर्गताश्चिकिमायां प्रवर्तन्ते / गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यक सहन्ते, प्रवचनोक्तेन वा विधिना प्रतिक्रियामाचरन्तीति रोगपरीपहजयः। अशुपिरतणम्य दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छवासिनां च, तत्र येषां शयनमनुज्ञातं निष्पन्नानां तेषां (निशायां ते तान् ?) दर्भान् भूमावास्तीर्य संस्तारकोतरपट्टको च दर्भाणामुपरि विधाय शेरते, चौरापहृतोपकरणो वा प्रतनुकसंस्तारकादिपट्टो वाऽत्यन्तजीर्णत्वात् तथापि तं परुषकुशदर्भादितृणसंस्पर्श सम्यगधिसहते यस्तस्य तृणस्पर्शपरीषहजयः। ___रजः परागमात्र मलस्तु स्वेदवारिसम्पर्ककठिनीभूतो वपुषि स्थिरतामितो ग्रीष्मोष्ममेम्पातजनितधर्मजलार्द्रतां गतो दुर्गन्धिर्महान्तमुद्वेगमुत्पादयति / तदपनयनाय न कदाचिदभिषेकाधभिलाषं करोतीति मलपरीषहजयः। ___ सत्कारो भक्तपानवस्त्रपात्रादिना परतो योगः, पुरस्कारः सद्भूतगुणोत्कीर्तनं वन्दनाभ्युत्थानासनप्रदानादिव्यवहारश्च, तत्रासत्कारितोऽपुरस्कृतो वा न द्वेषं यायात्, न दूषयेत् मनोविकारेणात्मानमिति सत्कारपुरस्कारपरीषहजयः। प्रज्ञायतेऽनयेति प्रज्ञा-बुद्धयतिशयः, तत्प्राप्तौ न गर्वमुद्वहत इति प्रज्ञापरीषहजयः / प्रज्ञाप्रतिपक्षेणाल्पबुद्धिकत्वेन परीपहो भवति / नाहं किञ्चिजाने मूर्योऽहं सर्वपरिभूत इत्येवं परितापमुपागतस्य परीषहः, तदकरणात् कर्मविपाकोऽयमितिपरीषहजयः।। ___ ज्ञानं तु श्रुताख्यं चतुर्दश पूर्वाण्येकादशाङ्गानि, समस्तश्रुतधरोऽहमिति गर्वमुद्वहते, तत्रागर्वकरणात् ज्ञानपरीषहजयः / ज्ञानप्रतिपक्षणाप्यज्ञानेनागमशून्यतया परीषहो भवति, ज्ञानावरणक्षयोपशमोदयविजृम्भितमेतदिति, स्वकृतकर्म फलपरिभोगादपैति तपोनुष्ठानेन घेत्येवमालोचयतो ज्ञानपरीषहजयो भवति / ___ अदर्शनपरीषहस्तु सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसङ्गवाह तथापि धर्माधर्मात्मदेवनारकादिभावानेक्षे, अतो मृषा समस्तमेतदिति अदर्शनपरीषहः / ... तत्रैवमालोकयेत् धर्माधर्मों पुण्यपापलक्षणौ यदि कर्मरूपी पुद्गलात्मको, धमोघदशेने हतवः ततस्तयोः कार्यदर्शनादनुमानसमधिगम्यत्वम् / अथ क्षमाक्रोधादिको धर्माधर्मों, ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्षविरोधः। देवास्त्वत्यन्तरतसुखासक्तत्वान्मनुष्यलोके च कार्याभावात् दुष्पमानुभावाच न दर्शनगोचरमायान्ति / नारकास्तु तीव्रवेदनार्ताः पूर्वकृतकर्मोदयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतः अदर्शनपरीषहजयो भवतीति / इतिशब्द इयत्ताप्रदर्शनार्थः // 1 सन्पात' इति ग--पाठः। २'बुद्धिरतिशयः' इति उ-पाठः। 3 'तापस्तस्य' इति ग-पाठः / 4 'धर्मात्म' इति -पाठः। “यत्तथ दर्शन ' इति ङ-पाठः /