________________ सूत्र 10 ] . स्वोपज्ञभाष्य-टीदालङ्कृतम् 229 . भा०--एते द्वाविंशतिधर्मविघ्नहेतवो यथोक्तं प्रयोजनमभिसन्धाय रागषो निहत्य परिषोढव्या भवन्ति // 9 // ___टी-एत इति / क्षुदादयोऽदर्शनान्ताः प्रत्यक्षीकृता द्वाविंशतिरिति न न्यूना नाधिकाः क्षमादिदशलक्षणकस्य धर्मस्य विघ्नहेतवः-अन्तरायकारणभूताः / यथोक्तं संवराख्यं प्रयोजनमभिसमीक्ष्य अभिसन्धाय संवरफलं चाभिसन्धाय मोक्षं रागद्वेषौ निहत्येति / केचिद् रागादुदयमासादयन्ति केचिद् द्वेषादिति, अतः सर्व एवैते प्रादुःष्यन्तः समापतिताः समन्तात् परिषोढव्या भवन्तीति // 9 // पञ्चानामेवेत्यादिना सूत्रं सम्बध्नाति भा०—पश्चानामेव कर्मप्रकृतीनामुद्यादेते परीषहाः प्रादुर्भवन्ति / तद्यथाज्ञानावरण-वेदनीय-दर्शनचारित्रमोहनीया-ऽन्तरायाणामिति // टी०–पञ्चानामेव न षण्णां न चतसृणां कर्मप्रकृतीनामुदयाद् विपाकादेते द्वाविंशतिः परीषहाः समुपजायन्ते / काः पुनस्ताः पञ्च कर्मप्रकृतय इति नामग्राहमाचष्टे–ज्ञानावरणस्य वेद्यस्य मोहनीयस्य / तच्च मोहनीयं द्विप्रकार-दर्शनमोहनीयं चारित्रमोहनीयं च / तथा अन्तरायस्येत्येवमेताः पञ्च प्रकृतयः / तत्र कः परीपहः कस्य गुणस्थानेषु चेत्याह सूत्रम्-सूक्ष्मसम्पराय-छद्मस्थवीतरागयोश्चतुर्दश // 9-10 // भा०-सूक्ष्मसम्परायसंयते छद्मस्थवीतरागसंयंते च चतुर्दश परीषहाः सम्भवन्ति, क्षुत्पिपासाशीतोष्णदंशमशकचांप्रेज्ञाज्ञानालाभशय्यावधरोगतृणस्पर्शमलानि // 10 // टी--सूक्ष्मेत्यादि / स्वामिविशेषावधारणम् / चतुर्दशानां परीषहाणां सम्परायःकषायो लोभाख्यस्तस्य बादराणि खण्डानि परिशाटितानि नवमे गुणस्थाने / दशमे तु गुणस्थाने सूक्ष्मलोभपरमाणवो वेद्यन्ते / ततः सूक्ष्मः सम्परायो यस्यासौ सूक्ष्मसम्परायः, शमकः क्षपको वा संयतो मूलोत्तरगुणसम्पन्नस्तस्मिन् सूक्ष्मसम्परायसंयते अमी चतुर्दश परीषहाः सम्भवन्ति, उदयमासादयन्तीतियावत् / छम-आवरणं तत्र स्थितश्छद्मस्थः, सावरणज्ञान इति / वीतः-अपेतो रागः सकलमोहोपर्शमात् समस्तमोहक्षयाच्च यस्य, क्रमेणैकादशद्वादशगुणस्थानवर्तिनी संयती परिगृह्यते / छद्मस्थवीतरागसामान्याच्चैकवचनम् / सूक्ष्मसम्परायश्च छद्मस्थवीतरागश्चेति द्वन्द्वः। तयोश्चतुर्दशते भाष्यपरिपठिताः परीपहाः क्षुदादयो मलावसानाः // 10 / / 1 'परीषहाः ' इत्यधिको घ-पाठः। 2-3 'यतेः' इति ग-पाठः। 4 'भवन्ति ' इति घ-पाठः / 5' अलाभप्रज्ञाज्ञानशय्या' इति ग-पाठः। 6 'शमसमस्तन्मोह ' इति ङ-पाठः /