________________ सूत्र 9] - स्वोपज्ञभाष्य-टीकालङ्कृतम् 227 समधिगम्याः आचार्यो-पाध्याय-स्थविर-भिक्षु-क्षुल्ल विभागाः मासकल्पविहारिणः परितनुकमूल्यवसनस्थगिताग्रिमभागाः वर्षाकल्पादिपरिभोगकारिणः दशविधसामाचार्यनुष्ठायिनः उद्गमोत्पादनैपणादिशुद्धाहारोपधिशय्यासेविनश्चेति / एवं जिनकल्पिकादीनां गच्छवासिनां च पारमर्षप्रवचनानुसारिणां नान्यपरीपहजयः सम्भवतीति, नान्येषाम् / अरतिः उत्पद्यते कदाचिद् विहरतः तिष्ठतो वा सूत्रोपदेशेन, तत्रोत्पनारतिनापि सम्यग्धर्मारामरतेनैव भवितव्यम्, एवमरतिपरीषहजयः स्यादिति। स्त्रीणामङ्गप्रत्यङ्गसंस्थानहसितललितविभ्रमादिचेष्टाश्चिन्तयेत् न जातुचित् , चक्षुरपि न सासु निवेशयति मोक्षमार्गार्गलासु कामबुद्धया, एवं स्त्रीपरीपहजयः कृतो भवति / / / तर्जितालस्यो. ग्रामनगरकुलादिष्वनियतवसतिनिर्ममत्वः प्रतिमासं चर्यामाचरेदित्येवं पर्यापरीपहजयः। निषीदन्त्यस्यामिति निषद्या-स्थानं स्त्रीपशुपण्डकविवर्जितमिष्टानिष्टोपसर्गजयिना तत्रानुद्विनेन निषद्यापरीपहजयः कार्यः / शय्या-संस्तारकः मञ्चकादिपट्टो वा मृदुकठिनादिभेदेनोचावचः प्रतिश्रयो वा पासूत्करप्रचुरः शिशिरे बहुधर्मको वा तत्र नोद्विजेत कदाचनेति शय्यापरीषहजयः। आक्रोश:-अनिष्टवचनं, तद् यदि सत्यं कः कोपः ? शिक्षयति हि मामयमुपकारी, न पुनरेवं करिष्यामीति / असत्यं चेत् सुतरी कोपो न कर्तव्य इत्याक्रोशपरीषहजयः। वधः-ताडनं पाणिपाणिलताकशादिभिः। तदपि शरीरमवश्यंतया विध्वंसत एवेति मत्वा सम्यक् सहितव्यम्, अन्यदेवेदमात्मनः पुद्गलसंहतिरूपम् , आत्मा पुनने शक्यत एव ध्वंसयितुम् / अतः स्वकृतकर्मफलमुपनतमिदं ममेति सम्यक् सहमानस्य वधपरीषहजयः। - याच --मार्गणं भिक्षोर्वस्व-पात्रा-ऽन्न-पान प्रतिश्रयादेः परतो लब्धव्यं सर्वमेव / शालीनतया च न यांच्या प्रत्याद्रियते, साधुना तु प्रागल्भ्यभाजा याचनमवश्यमेव कार्यमित्येवं बाच्यापरीषहजयो विधेयः। ____ अलाभस्तु याचिते सति प्रत्याख्यानं विद्यमानमविद्यमानं वा न ददाति, यस्य स्वं तत् कदाचित् वा दत्ते, कदाचिन्न, कस्तत्रापरितोषो न यच्छति सति / यथोक्तम् (दशवै० अ० 5, उ० २)-बहुं परघरे अत्थि" इत्यादि / अलाभेऽपि समचेतसैव अविकृतस्वान्तेनैव भवितव्यमित्यलाभपरीषहजयः। १'अनृतं ' इति ङ-पाठः। 2' याचनया.' इति ङ-पाठः / . 3 सम्पूर्ण पद्यं साक्षीभूतपाठरूपेण दृश्यते श्रीजिनसूरप्रणीतायां प्रियङ्करनृपकथायां (पृ. 22), तचैवम् "बहुं परघरे अस्थि विविहं खाइमं साइमं / म तत्व पंडिओ कुप्पे इच्छा दिज्ज परो नावा॥" एतच्छाया यथा बहु परगृहेऽस्ति विविधं खादिम स्वादिमम् / न तत्र पण्डितः कुप्येत् इच्छया दद्यात् परो न वा //